________________
२६४
रघुवंशे
=
व्याख्या--सः=महान् पाषाणः शत्रून् हन्तीति शत्रुघ्नस्तेन शत्रुघ्नेन इन्द्रः देवता अस्य तत् ऐन्द्रं = इन्द्रदेवतासंबन्धि अस्त्रं = शास्त्रम् उपादाय गृहीत्वा ताडितः = मारितः सन् सिकतानां : वालुकानां भावः सिकतात्वं तस्मात् सिकतात्वात् = वालुकात्वात् अपि पराम् = अधिकां यस्मात् अणुर्नास्ति स परमाणुः तस्य भावः परमाणुता तां परमाणुतां = परमाणुत्वं प्रपेदे = प्राप ।
=
हिन्दी - लवणासुर के द्वारा फेंकी गई वह चट्टान ( शिला ) वाले अस्त्र से मार कर ऐसी चूर्ण-चूर्ण कर दी कि वह बालू से हो गई । अर्थात् जिससे कोई छोटा न हो वह परमाणु होता है के समान कण-कण बना दिया ॥ २२ ॥
।
तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः । एकताल इवोत्पातपवनप्रेरितो गिरिः ॥ २३ ॥
शत्रुघ्न ने अपने इन्द्र देवता अधिक परमाणु पने को प्राप्त शत्रुघ्न ने भी उसे परमाणु
निशाचरो राक्षसो दक्षिणं दो: । 'ककुद्दोषणी' इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम् । ‘भुजबाहू प्रवेष्टो दो:' इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च । तथा च प्रयोगः'दोषं तस्य तथाविधस्य भजतः' इति । सव्येतरं बाहुमुद्यम्य एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः । उत्पातपवनेन प्रेरितो गिरिरिव । तं शत्रुघ्नमुपाद्रवदभिद्रुतः ॥
अन्वयः - निशाचरः दक्षिणं दोः उद्यम्य एकतालः उत्पातपवनेरितः गिरिः इव तम् उपाद्रवत् ।
व्याख्या - निशासु चरतीति निशाचरः = राक्षसो लवणः दक्षिणं = सव्येतरं दो: = भुजम् उद्यम्य = उत्थाप्य एकः तालः = तृणराजः, तालवृक्ष इत्यर्थः यस्मिन् सः एकतालः " तृणराजाह्वय स्तालः” इत्यमरः । उत्पातः = प्रचण्डश्चासौ पवनः = वायु:, इति उत्पातपवनः, अशुभसूचक पवन इति वा, तेन प्रेरितः = प्रचोदितः प्रक्षिप्तः इत्यर्थः । इति उत्पातपवनप्रेरितः गिरिः = पर्वतः इव यथा तं = शत्रुघ्नम् उपाद्रवत् = अभिद्रुतः । लम्बायमानं दीर्घं बाहुमुद्यम्य शत्रुघ्नं हन्तुमभिदुद्रावेत्यर्थः ।
समासः - एकः ताल: यस्मिन् सः एकतालः । उत्पातश्चासौ पवनः उत्पातपवनस्तेन प्रेरितः इति उत्पातपवनप्रेरितः ।
हिन्दी – “यह देख" वह राक्षस अपने दाहिने हाथ को ऊपर उठा कर शत्रुघ्न की ओर ऐसा झपटा, मानो प्रचण्डवायु ( बवण्डर ) से उड़ाया हुआ वह पहाड़ हो जिसकी चोटी पर केवल एक ताड़ का पेड़ खड़ा हो । लवणासुर ने अपना एक ही हाथ ऊपर उठाया था । अतः कवि ने भी एक ताड़ वाला पर्वत कहा है ॥ २३ ॥
कार्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् ।
आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥ २४ ॥