________________
चतुर्दशः सर्गः
ठीक मार्गपर चलाने के कारण वे सब के पिता थे । और रामचन्द्रजी सब के दुःखों का निवारण करते थे, अतः प्रजा उन्हीं से अपने को पुत्रवान् समझती थी ।
२०७
विशेष- - राम लोभी नहीं थे । अतः कर नहीं लगाते थे, अतः प्रजा खूब धनी थी । पुत्र के समान सब के दुःखों को मिटाते थे और पिता के समान सब को सन्मार्ग में लगाते थे ! और राम के कारण सब अपने-अपने कर्म निर्भय होकर करते थे ।। २३ ॥
स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा । उपस्थितश्चारु वपुस्तदीयं कृत्वोपमोगोत्सुकयेव लक्ष्म्या ।। २४ ।।
स रामः कालेऽवसरे पौराणां कार्याणि प्रयोजनानि समीक्ष्य विदेह | धिपतेर्दुहित्रा सीतया । उपभोगोत्सुकयात एव तदीयं सीतासंबन्धि चारु वपुः कृत्वा स्थितया लक्ष्म्येव । उपस्थितः संगतः सन् रेमे । 'उपस्थानं तु संगतिः' इति यादवः ॥
श्रन्यः सः काले पौरकार्याणि समीक्ष्य विदेहाधिपतेः दुहित्रा उपभोगोत्सुकया “अत एव” तदीयं चारु वपुः कृत्वा “स्थितया " लक्ष्म्या इव उपस्थितः सन् रेमे ।
=
व्याख्या—सः=रामः कालयति सर्वमिति कालस्तस्मिन् काले = समये पुरे भवाः पौराः पौराणां = नागरिकाणां कार्याणि = प्रयोजनानि तानि पौरकार्याणि समीक्ष्य = सम्यक् प्रकारेण निरीक्ष्य विदेहानां = जनपदानाम् अधिपतिः = राजा, इति विदेहाधिपतिस्तस्य विदेहाधिपतेः = जनकस्य दुहित्रा = पुत्र्या सीतया उपभोजनमुपभोगः, उपभोगे = निवेंशे रतिसुखे, इत्यर्थः समुत्सुका - उत्कण्ठिता, तया उपभोगसमुत्सुकया “निर्देश उपभोगः स्यात्" इत्यमरः । अत एव तस्या इदं तदीयं = सीतासंबन्धि चारु = सुन्दरं वपुः = शरीरं कृत्वा विधाय स्थितया राज्यश्रिया इव = यथा उप = समीपे तिष्ठति स्म, इति उपस्थितः । उपस्थितः, संमिलितः सन् रेभेः चिक्रीड | " उपस्थानं तु संगतिः” इति यादवः ।
=
समासः - पौराणां कार्याणि पौरकार्याणि तानि पौरकार्याणि । विदेहानाम् अधिपतिः विदेहाधिपतिस्तस्य विदेहाधिपतेः । उपभोगे समुत्सुका, इति उपभोगसमुत्सुका तया ।
हिन्दी - रामचन्द्र, समय पर नागरिकों ( प्रजा ) के कार्य को देखभालकर, विदेहराज जनक की पुत्री सीता के साथ मिलकर रमण करते थे । "सीताजी ऐसी लगती थीं" मानो भोग करने के लिये उत्कण्ठित ( बड़ी इच्छा वाली ) और इसीलिये सीताजी का सुन्दर शरीर बनाकर आई राज्यलक्ष्मी हो ॥ २४ ॥
तयोर्यथाप्रार्थितमिन्द्रियार्थानालेदुषोः सद्मसु चित्रवत्सु ।
प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन् ॥ २५ ॥
चित्रवत्सु वनवासवृत्तान्तालेख्यवत्सु सद्मसु यथाप्रार्थितं यथेष्टमिन्द्रियार्थानिन्द्रियविषयाब्शब्दादीनासेदुषोः प्राप्तवतोस्तयोः सीतारामयोर्दण्डकेषु दण्डकारण्येषु प्राप्तानि दुःखान्यपि विरहविलापान्वेषणादीनि संचिन्त्यमानानि स्मर्यमाणानि सुखान्यभूवन् । स्मारकं तु चित्रदर्शनमिति द्रष्टव्यम् ॥