Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
चतुर्दशः सर्गः
२२५
मरविन्दमिव मुखारविन्दम्, परिम्लानं मुखारविन्दं यस्याः सा परिम्लानमुखारविन्दा । अवरजैः सहितः सावरजस्तस्य सावरजस्य । न बाह्यानि अबाह्यानि तैः अबायैः।
हिन्दी-अपशकुन से हुई खिन्नता ( दुःख ) से तुरन्त मुरझाए मुखवाली सीता जी, छोटे भाइयों के सहित राजा राम का कल्याण हो। इस प्रकार अपने अन्तःकरण से बारबार मनाने लगी।
विशेषः-अन्तःकरण एक है। किन्तु महाकवि ने अबाझैः करणैः ( भीतरी इन्द्रियों ) से बहुवचन कहा है। इसका तात्पर्य बार-बार कल्याण की कामना से है ॥ ५० ॥
गुरोर्नियोगाद्वनितां वनान्ते साध्वी सुमित्रातनयो विहास्यन् ।
आवार्यतेवोत्थितवीचिहस्तै होर्दुहित्रा स्थितया पुरस्तात् ॥ ५१ ॥ गुरोज्येष्ठस्य नियोगात्साध्वीं वनिताम् । अत्याज्यामित्यर्थः। वनान्ते विहास्यंस्त्यक्ष्यन्सुमित्रातनयो लक्ष्मणः पुरस्तादभ्रे स्थितया जोर्दुहित्रा जाह्नव्योत्थितैवींचिहस्तैरवार्यतेव अकार्य मा कुवित्यवार्यतेव । इत्युत्प्रेक्षा ॥ ___ अन्वयः-गुरोः नियोगात् साध्वीं वनितां वनान्ते विहास्यन् सुमित्रातनयः पुरस्तात् स्थितया जह्नोः दुहित्रा उत्थितवीचिहस्तैः अवार्यत इव ।
व्याख्या-गुरोः= ज्येष्ठस्य भ्रातुः नियोगात् = निदेशात् आशयेत्यर्थः। साध्नोति परकार्य, परलोकं वा साध्वी तां साध्वीं पतिव्रतां वनितां = महिलाम् , अत्याज्यामित्यर्थः। वनस्य अन्तः =मध्यस्तस्मिन् वनान्ते विहास्यन् =त्यक्तुं इच्छन् सुमित्रायाः तनयः पुत्रः इति सुमित्रातनयः = लक्ष्मणः पुरस्तात् =अग्रे स्थितया = वर्तमानया जह्नोः =राजर्षेः दुहित्रा=पुत्र्या उत्थिताः= उद्गताः वीचयः तरंगाः हस्ताः=कराः इव, इति उत्थितवीचिहस्तास्तैः उत्थितवीचिहस्तैः अवार्यत इव = वार्यतेस्म श्वेत्युत्प्रेक्षायाम् ।।
समासः-सुमित्रायाः तनयः सुमित्रातनयः । वीचयः हस्ता इवेति वीचिहस्ताः उत्थिताश्च ते वीचिहस्ताः उत्थितत्रीचिहस्ताः तैः उत्थितवोचिहस्तैः ।
हिन्दी-बड़े भाई की आज्ञा से पतिव्रता अबला ( अतः न त्यागने योग्य ) को वन में छोड़ने के लिये जाते हुवे सुमित्रानन्दन लक्ष्मण को सामने से बहती हुई जह्न राजा की लड़की ( गंगाजी ) मानो ऊपर को उठे हुए अपने तरंग रूपी हाथों से रोक रही थी। अर्थात् मार्ग में गंगा जो पड़ती थीं, और उसमें तरंगें उठ रही थीं। इसे देखकर कवि उत्प्रेक्षा करते हैं कि मानो गंगा जी तरंग रूपी हाथों से लक्ष्मण को रोकती हैं कि सीता जी सती हैं। अतः ये त्यागने के योग्य नहीं हैं ॥ ५१ ॥
रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य । गङ्गा निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः ॥ ५२ ॥