________________
२४०
रघुवंशे
समासः-मिथ्या अपवादः मिथ्यापवादः, मिथ्यापवादेन क्षुभित इति मिथ्यापवादक्षुभितस्तेन मिथ्यापवादक्षुभितेन।
हिन्दी--“हे बेटी !'' तुम को झूठी लोकनिन्दा के भय से तुम्हारे पति राम ने त्याग दिया है। यह मैं समाधि से जानता हूँ। हे जानकी ! दूर देश में स्थित, अपने पिता के ही घर में पहुँच गई हो। इसलिये तुम दुःखी मत हो। किसी प्रकार भी शोक-चिन्ता न करो॥ ७२ ॥
उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युमरताग्रजे मे ॥ ७३ ॥ उत्खातलोकत्रयकण्टकेऽपि। रावणादिकण्टकोद्धरणेन सर्वलोकोपकारिण्यपीत्यर्थः। सत्यप्रतिशे सत्यसंधेऽपि अविकत्थनेऽनात्मश्लाविन्यपि । इत्थं स्नेहपात्रेऽपि त्वां प्रत्यकस्मादकारणाकलुषप्रवृत्तौ गर्हितव्यापारे भरताग्रजे मे मन्युः कोपोऽस्त्येव । सर्वगुणाच्छादकोऽयं दोष इत्यर्थः । सीतानुनयार्थोऽयं रामोपालम्भः ।।
अन्वयः--उत्खातलोकत्रयकण्टके अपि सत्यप्रतिशे अपि अविकत्थने अपि त्वां प्रति अकस्मात् कलुषप्रवृत्ती भरताग्रजे मे मन्युः अस्ति एव ।।
व्याख्या:--लोकानां त्रयमिति लोकत्रयम् । उत्खातः = उद्धृतः लोकत्रयस्य = भुवनत्रयस्य कण्टकः =कीलकं, क्षुद्रशत्रुरित्यर्थः । यन सः उत्खातलोकत्रयकण्टकस्तस्मिन् उत्खातलोकत्रयकण्टके अपि, लोककल्याणकर्तर्यापीत्यर्थः । “कण्टकः क्षुद्र शत्रौ च" इति विश्वः । सत्या प्रतिज्ञा =सन्धा यस्य स तस्मिन् सत्यप्रतिशे अपि विकत्थ्यते इति विकथनं = मिथ्याश्लाघा न विकत्थनः अविकत्यनस्तस्मिन् अविकत्थनेऽपि आत्मश्लाघाशून्येऽपि, एवं स्नेहभाजनेऽपि त्वां =सीतां प्रति अकस्मात् = अतर्कितम् अकारणात् कलुषा = गर्हिता प्रवृत्तिः = व्यापारः यस्य स तस्मिन् कलुषप्रवृत्तौ भरतस्य अग्रजः भरत ाग्रजः तस्मिन् भरताग्रजे = रामचन्द्रे मे = मम वाल्मीकेः मन्युः = क्रोधः अस्ति = वर्तते एवेति निश्चयेन । अयं दोषः सर्वगुणविनाशक इत्यर्थः ।
समासः-लोकानां त्रयमिति लोकत्रयम् । उत्खातः लोकत्रयस्य कण्टको येन सः उत्खातलोकत्रयकण्टकः तस्मिन् तथोक्ते । सत्या प्रतिज्ञा यस्य स तस्मिन् सत्यप्रतिज्ञे। न विकत्थनः अविकत्थनस्तस्मिन् अविकत्यने। कलुषा प्रवृत्तिर्यस्य स तस्मिन् कलुषप्रवृत्तौ। भरतस्य अग्रजस्तस्मिन् भरताग्रजे।
हिन्दी-तीनों लोकों के शत्रु रावणादि राक्षसों को उखाड़ फेंकने वाले, अर्थात् लोककल्याणकारी और सत्य प्रतिज्ञावाले तथा अपने मुख से अपनी प्रशंसा न करने वाले भी, अर्थात् इन कारणों से मेरे स्नेही होते हुए भी, किन्तु अकारण तुम्हारा त्याग जैसा निन्दनीय व्यवहार करने वाले राम के ऊपर मेरा क्रोध है ही।
विशेष-इस प्रकार राम को उलाहना देने से सीताजी को सान्त्वना देना है ॥ ७३ ॥