Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
चतुर्दशः सर्गः
२२३ अवगप्रतीताम् । वैदेहस्यसुता तां वैदेहसुताम् । युक्ता धूः यस्य स तं युक्तधुरम् । सुमंत्रण प्रतिपन्नाः रश्मयो यस्य स तं सुमंत्रप्रतिपन्नरश्मिम् ।
हिन्दी-इसके बाद, अपनी इच्छानुसार बात को सुनकर प्रसन्न हुई, जनकनन्दिनी सीत । को लक्ष्मण जी उस रथ में बैठाकर चल पड़े। जिसे कि दशरथ के मंत्री एवं सारथी सुमंत्र हाँक रहे थे। तथा जिसमें गर्भिणी को ले चलने योग्य सरल घोड़े जुते हुए थे। अतः हिचकोले नहीं लग सकते थे ॥ ४७ ॥
सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् ।
नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥ ४८ ॥ सा सीता रुचिरान्प्रदेशान्नीयमाना प्राप्यमाणा सती मे मम प्रियः प्रियं करोतीति प्रियंकरः प्रियकारीत्यनन्दत् । 'क्षेमप्रियमद्रेऽण्च' इति चकारात्खच्प्रत्ययः। तं प्रियमात्मनि विषये कल्पद्रुमतां विहायासिपत्रवृक्षं जातं नाबुद्ध नाशासीत् । बुध्यतेलुङ् । असिपत्रः खड्गाकारदलः कोऽप्यपूर्वो वृक्षविशेषः। 'असिपत्रो भवेत्कोषाकारे च नरकान्तरे' इति विश्वः । आसन्नवातुक इति भावः ॥
अन्वयः-सा रुचिरान् प्रदेशान् नीयमाना सती मे प्रियः प्रियंकरः इति अनन्दत् । तम् आत्मनि कल्पद्रुमतां विहाय असिपत्रवृक्षं जातं न अबुद्ध ।
व्याख्या-सा=सीता रोचन्ते इति रुचिरास्तान् रुचिरान् = मनोरमान् , सुन्दरानित्यर्थः । प्रदेशान् = स्थानविशेषान् नीयतेऽसौ नीयमाना=प्राप्यमाणा सती मे= मम सीतायाः प्रियः = पतिः "धवः प्रियः पति भर्ता" इत्यमरः। प्रियम् =अभिमतं करोतीति प्रियंकरः इति एवम् अनन्दत् = आनन्दितवती । तं = प्रियपतिम् आत्मनि = स्वविषये कल्पस्य =संकल्पिताथस्य द्रुमः= वृक्षः इति कल्पद्रुमः, तस्य भावः कल्पद्रुता तां कल्पद्रुमतां विहाय = त्यक्त्वा असतीति असिः खड्गः, कृपाणः । असिरिब तीक्ष्णं पत्रं यस्य सः असिपत्रः। असिपत्रश्चासौ वृक्षः = खड्गदलाकारः द्रुमविशेषः तम् असिपत्रवृक्षं जातं = भूतं न अबुद्ध =न अज्ञासीत् ।
समासः-असिरिव पत्रं यस्य सः असिपत्रः । असिपत्रश्चासौ वृक्षस्तम् असिपत्रवृक्षम् । कल्पस्य द्रुमः कल्पद्रुमस्तस्य भावस्तत्ता तां कल्पद्रुमताम् ।
हिन्दी-सुन्दर रमणीय प्रदेशों को ले जाई जाती सीता जी यह विचार कर बड़ी प्रसन्न हुई कि मेरे प्राणप्रिय राम मेरे मन की बात सदा पूरी करते हैं। किन्तु सीता ने यह नहीं जाना कि वे प्रिय पति इस समय मनोरथों को पूरा करने वाले कल्पवृक्षपने को छोड़कर तलवार के समान पत्तों वाले वृक्ष के समान घातक हो गये हैं ॥ ४८॥
जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्षणा ।
आख्यातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ॥ ४९ ॥ पथि लक्ष्मणो यदुःखं तस्याः सोताया जुगूह प्रतिसंहृतवांस्तद्गुरु भावि भविष्यदुःखमत्यन्तलुप्तं