Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
चतुर्दशः सर्गः
२१७
भवन्तं = प्रसरन्तं सः एव पूर्वः = प्रथमः यस्य स तं तत्पूर्वम् , वर्ण्यते इति वर्णः = प्रशंसा तद्विरुद्धः अवर्णस्तम् अवर्ण- निन्दां “अवर्णाक्षेपनिर्वादपरीवादापवादवत्" इत्यमरः । द्वाभ्यां == मुख शुण्डाभ्यां पिबन्तीति द्विपास्तेयाम् इन्द्रः इति द्विपेन्द्रः = गजेन्द्रः, आलीयते =संश्लिष्यतेऽत्र आलानं = बन्धनस्तम्भः, आलानमेव आलानिकं = गजबन्धनस्तम्भम् । “आलानंबन्धस्तम्भः" इत्यमरः। तिष्ठतीति स्थाणुः तं स्थाणुं = शङ्कुम् "स्थाणुर्ना ध्रुवः शंकु"रित्यमरः । इव = यथा सोढुं = सहनंकर्तुं न ईशे = न शक्नोमि ।
समासः-तैलस्य बिन्दुस्तैलबिन्दुस्तं तैलबिन्दुम् । द्विपानामिन्द्रः द्विपेन्द्रः। सः पूर्वः यस्य स तं तत्पूर्वम् । न वर्णः अवर्णस्तम् अवर्णम् ।
हिन्दी-जल की तरंगों के ऊपर जैसे तेल को बूंद, बड़ी तेजी से फैल जाती है। वैसे हो नागरिकों में ( घर घर ) तेजी से फैलती हुई, इस सर्वप्रथम अपवाद ( झूठी निन्दा ) को निष्कलंक मैं उसी प्रकार सहन करना नहीं चाहता हूँ। जिस प्रकार गजेन्द्र, अपने बन्धन के यूँटे को सहन करना नहीं चाहता है ॥ ३८॥
तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि नियंपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्र नेमि पितुराज्ञयेव ॥ ३९ ॥ तस्यावर्णस्यापनोदाय फलप्रवृत्तावपत्योत्पत्तावुपस्थितायां सत्यामपिं निर्व्यपेक्षो निःस्पृहः सन् । चंदेहतुताम् । पुरस्तात्पूर्व पितुराशया समुद्रनेमि समुद्रो नेमिरिव नेमिर्यस्याः सा भूमिः तामिव । त्यक्ष्यामि ॥
अन्वयः-तस्य अपनोदाय फलप्रवृत्तौ उपस्थितायाम् अपि निर्व्यपेक्षः सन् वैदेहसुतां पुरस्तात् पितुः आशया समुद्रनेमिम् इव त्यक्ष्यामि।
व्याख्या-तस्य = सर्वप्रथमापवादस्य अपनोदाय = दूरीकरणाय विनाशायेत्यर्थः। फलस्य = पुत्ररूपस्य प्रवृत्तिः = उत्पत्तिः तस्यां फलप्रवृत्तौ उपस्थितायां = प्राप्तायां सत्यामपिनिर्गता विशेषा अपेक्षा यस्य स निर्व्यपेक्षः = निस्पृहः सन् विदेहानांराजा वैदेहः । वैदेहस्य = राशो जनकस्य सुता = पुत्री तां वैदेहसुतां = सीतामित्यर्थः। पुरस्तात् = पूर्व पितुः = स्वजनकस्य दशरथस्यआशया= आदेशेन चन्द्रोदयात् आपः सम्यगुन्दन्ति = क्लिद्यन्ति यत्र स समुद्रः। समुन्दयन्तीति समुद्रः= सागरः नेमिः = परिधिः इव नेमिः यस्याः सा तां समुद्रनेमि = पृथिवीम् इव = यथा त्यक्ष्यामि, पृथिवीं इव जानकी परित्यक्ष्यामि, इत्यर्थः ।
समासः-फलस्य प्रवृत्तिः फलप्रवृत्तिः तस्यां फलप्रवृत्तौ निर्गता विशिष्टा अपेक्षा यस्य स नियंपेक्षः । वैदेहस्य सुता वैदेहसुता तां वैदेहसुताम् । समुद्रः नेमिः इव नेमिः यस्याः सा तां समुद्रनेमिम् ।
हिन्दी-इसलिये उस कलंक को मिटाने के लिये सीता के पुत्र रूप फल की प्राप्ति के अवसर पर भी अपनी विशेष आशा का त्याग करके भी मैं उसी प्रकार जानकी को त्याग दूंगा, जिस प्रकार पहले पिता जी की आज्ञा से समुद्रपर्यन्त पृथिवी का त्याग कर दिया था ॥ ३९ ॥