________________
चतुर्दशः सर्गः
२१५
हि = तथाहि
त्यागेन परिमार्ज्जु = परिहर्तुं परिक्षालापितुमित्यर्थः । ऐच्छत् = इच्छितवान् । यशः = कीर्तिरेव धनं = वित्तं येषां ते तेषां यशोधनानाम् जनानां स्वस्य देहः शरीरं तस्मात् स्वदेहादपि यशः = कीर्तिः गरीयः = गुरूतरम् विद्यते, इन्द्रियाणां = चक्षुरादीनाम् अर्थः = विषयः स्रक्चन्दनादिस्तस्मात् इन्द्रियार्थात् गरीयः इति किमुत, अत्र किं वक्तव्यं, सीता इन्द्रियार्थः एव अतस्तस्या = परित्याग एव वाच्यपरिमार्जनमित्यर्थः ।
=
समासः - नास्ति अन्येन निवृत्तिः यस्य तत् अनन्य निवृत्ति तत् । स्वस्य देह स्तस्मात् स्वदेहात् । यशः एव धनं येषां ते तेषां यशोधनानाम् । इन्द्रियाणाम् अर्थः इन्द्रियार्थस्तस्मात् इन्द्रियार्थात् ।
करने का कोई दूसरा उपाय करने की इच्छा की क्योंकि फिर स्त्री आदि भोग्य वस्तुओं
हिन्दी - किन्तु राम ने देखा कि इस निन्दा को निवारण नहीं है । अतः पत्नी को त्याग करके इस कलंक का परिमार्जन यशस्वियों को अपने शरीर से भी यश ही अधिक प्रिय होता है । का त्यागना कौन बड़ी बात है। सीता भी भोग्य पदार्थ ही है ॥ ३५ ॥
स संनिपात्यावरजान्हतौजा स्तद्विक्रिया दर्श न लुप्त हर्षान् । कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥ ३६ ॥
हतौजा निस्तेजस्कः स रामस्तस्य रामस्य विक्रियाया दर्शनेन लुप्तहर्षानवरजान्सं निपात्य संगमय्यात्माश्रयं स्वविषयकं कौलीनं निन्दां तेभ्य आचचक्षे । पुनरिदं वाक्यमुवाच च ॥
अभ्वयः - हतौजाः सः तद्विक्रियादर्शन लुप्तहर्षान् अवरजान् सन्निपात्य आत्माश्रयं कौलीनं तेभ्यः आचचक्षे, पुनः च इदं वाक्यम् उवाच ।
व्याख्या - हतं = नष्टम् ओजः = तेजः यस्य स हतौजाः सः = रामः तस्य = रामस्य विक्रिया = विकृतिः, मालिन्यमिति तद्विक्रिया, तस्याः दर्शनम् = अवलोकनं तेन लुप्तः = नष्टः हर्षः : = प्रसन्नता येषां ते तान् तद्विक्रियादर्शनलुप्तहर्षान् । “परिणामो विकारो द्वे समे विकृतिविक्रिये” इत्यमरः। अवरस्मिन्काले जाताः अवरजास्तान् अवरजान् = अनुजान् भरतादीन् सन्निपात्य = संगमय्य आत्मा = स्वयं रामः आश्रयः = विषयो यस्य तत् आत्माश्रयं तत् । कुलस्यापत्यं कुलीनः, कुलीनस्य भावः कर्म वा कौलीनं = लोकापवादं " स्यात्कौलीनं लोकत्रादे" इत्यमरः । तेभ्यः == अनुजेभ्यः आचचक्षे = कथयामास, पुनः = भूयः इदं = वक्षभाणं वाक्यं : वचनम् उवाच = उक्तवान् प्रथमं जनेषु प्रसिद्धं लोकापवादं भ्रातृभ्यः श्रावयित्वा पुनरिदक्वानित्यर्थः ।
=
समासः - हतम् ओजः यस्य स हतौजाः । विक्रियायाः दर्शनं विक्रियादर्शनं, तस्य विक्रियादर्शनेन लुप्तः हर्षः येषां ते तान् तद्विक्रियादर्शन लुप्तहषोन् । आत्मा आश्रयो यस्य तत् आत्माश्रयं तत् आत्माश्रयम् ।
हिन्दी- नष्ट कान्ति वाले ( उदास ) राम ने, अपने उन छोटे भाइयों को बुलाकर अपने विषय में उठी निन्दा उन्हें बताई। और फिर इस प्रकार बोले । जो भाई राम की उदासी को देखकर अपनी प्रसन्नता खो चुके थे । अर्थात् राम को देखते ही सन्न हो गये थे ॥ ३६ ॥