________________
२०४
रघुवंशे
ते तान् रक्षःकपोन्द्रान् रक्षांसि कपयश्च ते रक्षःकपयस्तेषामिन्द्राः तान, रक्षःकपीन्द्रान् ( इति वा ) सुग्रीवविभीषणादीन् रामः राघवः विससर्ज = विसृष्टवान् । मुनिगमनानन्तरं सुहृदोऽपि सत्कृत्य स्वकीयां स्वकीयां राजधानी प्रति प्रेषयामास इत्यर्थः ।
समासः = तपः एव धनं येषां ते तेषु तपोधनेषु । न विज्ञातः गतः अर्धमासः येषां ते तान् अविज्ञातगतार्धमासान् । सोतायाः स्वस्य हस्तेन उपहृता अग्य पूजा येभ्यस्तान् सीतास्वहस्तोपहृताग्यपूजान् । रक्षांसि कपयश्चेति रक्षःकपयस्तेषाम् इन्द्रास्तान् रक्षःकपीन्द्रान् ।
हिन्दी-तपस्वियों के लौट जाने पर राम ने, राक्षसों और वानरों के उन राजाओं को विदा कर दिया, जो अयोध्या में सुख से रहते हुए, यह भो न जान सके कि आधा महीना बीत गया। और जिन्हें सीताजी ने स्वयं अपने हाथ से उत्तम सत्कार प्रदान किया था ॥ १९॥
तच्चात्मचिन्तासुलभं विमान हृतं सुरारेः सह जीवितेन !
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमंस्त ॥ २० ॥ तच्चात्मचिन्तासुलभं स्वेच्छामात्रलभ्यं सुरारे रावणस्य जीवितेन सह हृतं दिवः पुष्पं पुष्पवदाभरणभूतं पुष्पक विमानं भूयः पुनरपि कैलासनाथस्य कुबेररयोद्वहनायान्वमस्तानुज्ञातवान् । मन्यतेर्लुङ् । भूयोग्रहणेन पूर्वमप्येतत्कौबेरमेवेति सूच्यते ॥
अन्वयः-तत् आत्मचिन्तासुलभं सुरारेः जीवितेन सह हृतं दिवः पुष्पं पुष्पकं, भूयः कैलाशनाथोद्वहनाय अमंस्त । ___ व्याख्या--तत् = प्रसिद्धम् आत्मना = स्वेन चिन्ता = ध्यानं, विचारः इति आत्मचिन्ता, आत्मचिन्तया = स्वविचारमात्रेण सुलभं = सुखेन प्राप्यमिति आत्मचिन्तासुलभं सुराणाम् अरिः सुरारिः तस्य सुरारेः =रावणस्य जीवितेन = प्राणेन, सह हृतम् = प्राप्तम् दिवः = स्वर्गस्य पुष्पं = कुसुमं, पुष्पमिवालंकारभूतमित्यर्थः । पुष्पक = विमानं भूयः = पुनः अपि, के = जले लासः =लसनमस्येति केलासः, केलासस्य = स्फटिकरय अयमिति कैलासः केलीनां समूहः केलं, कैलेन आस्यतेऽत्रासौ वा कैलासः, कैलासस्य = पर्वतविशेषस्य नाथः स्वामी कुबेरस्तस्य उद्वहनं प्रापणं, यानं तस्मै कैलासनाथोद्वहनाय, कुबेरसमीपगमनायेत्यर्थः। अमस्त = अनुज्ञातवान् । भूयः कथनेन पूर्वमपि पुप्पकं कुवेरस्यैवासीत्, इति सूच्यते।
समासः--आत्मनः चिन्ता, आत्मचिन्ता तया सुलभं तत् आत्मचिन्तासुलभम् । सुराणाम् अरिः सुरारिस्तस्य सुरारेः । कैलासस्य नाथः कैलासनाथः, तस्य उद्वहनं तस्मै कैलासनाथोद्वहनाय। - हिन्दी--राम ने, स्वर्ग के पुष्प के समान ( स्वर्ग के भूषण ) उस पुष्पक विमान फिर से कैलास के राजा कुबेर की सवारी के लिये ( उसके पास जाने की ) आज्ञा दे दी। जो कि मन में विचार आते ही उनकी सेवा के लिये आ जाता था। और जिसे राम ने रावण को मार कर हरण ( प्राप्त ) किया था । पहले भी विमान कुबेर का था, अब फिर उसी के पास भेज दिया ॥ २० ॥