Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
२०२
रघुवंशे विचार्यमाणं तव = भवत्याः सुकृतं = पुण्यम् , इति = एवं प्रकारेण भरतस्य मातुः = कैकेय्याःलज्जां = व्रीडां जहार = अपहृतवान् दूरीचकार ।
समासः--कृतः अञ्जलिः येन स कृताञ्जलिः। स्वर्गः फलं यस्य तत् तस्मात् स्वर्गफलात् ।
हिन्दी-उस भवन में ( जहाँ कैकेयी लज्जित सी बैठी थी ) जाकर, हाथ जोड़कर राम ने हे माँ, हमारे पिता जी, स्वर्गफल वाले सत्य से जो नहीं डिगे, इसको यदि विचार करते हैं तो यह तुम्हारे ही पुण्य का प्रभाव है। इस प्रकार भरत जी की माँ की लज्जा को दूर कर दिया।
विशेष-कैसेयी यदि अपना बरदान न माँगती तो राजा अपनी प्रतिशा पूरी न कर पाते और प्रतिज्ञा भ्रष्ट होने से स्वर्ग भी न मिलता। अतः पिता के स्वर्ग का साधन, प्रतिज्ञा का पालन है ॥ १६ ॥
तथैव सुग्रीवविभीषणादीनुपाचरत्कृत्रिमसंविधाभिः ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ।। १७ ।। सुग्रीवविभीषणादीन् । संविधीयन्त इति संविधा भोग्यवस्तूनि। कृत्रिससंविधाभिस्तथा तेन प्रकारेणैवोपाचरत् । यथा संकल्पमात्रेणेच्छामात्रेणोदितसिद्धयरते सुग्रीवादयश्चेतसि विस्मयेन क्रान्ता आक्रान्ताः ॥
अन्वयः--सुग्रीवविभीषणादोन् कृत्रिमसंविधाभिः तथा एव उपाचरत् , यथा संकल्पमात्रोदितसिद्धयः ते चेतसि विस्मयेन क्रान्ताः ।
व्याख्या-सुग्रीवश्च विभीषणश्च, सुग्रीवविभीषणौ, तौ अदी येषां ते सुग्रीवविभीषणादयस्तान् सुग्रीवविभीषणादीन् = सुहृद् वर्गान् संविधीयन्ते इति संविधाः । क्रियया निवृत्ताः कृत्रिमाः = कल्पिताश्च ताः संविधाः = भोग्यवस्तूनि, ताभिः कृत्रिमसंविधाभिः, तत्कालकल्पितपदाथैरित्यर्थः। तथैव = तेनैव प्रकारेण उपाचरत् = सम्मानसेवां कृतवान् , यथा = येन प्रकारेण संकल्पनं संकल्पः = इदं कर्तव्यम् , इदं कुर्यामिति मनसः व्यापारः एवेति संकल्पमात्रं तेन संकल्पमात्रेण =इच्छामात्रेण उदिता = उत्पन्ना सिद्धिः = इष्टपदार्थः येषां ते संकल्पमात्रोदितसिद्धयः ते = सुग्रीवादयः चेतसि= मनसि विस्मयेन = आश्चर्यण "विस्मयोऽमृतमाश्चय चित्रमपि" इत्यमरः,क्रान्ताः आक्रान्ताः ! आश्चर्यचकिताः जातास्ते तत्रत्यस्वाभिलषितां सुखसामग्री प्राप्य दृष्ट्वा चेत्यर्थः ।
समासः--सुग्रीवश्च विभीषणश्चेति सुग्रीवविभीषणौ, तौ आदी येषां ते तान् सुग्रीवविभोषणादीन् । कृत्रिमाश्च ताः संविधास्ताभिः कृत्रिमसंविधाभिः । संकल्प एवेति संकल्पमात्रं, संकल्पमात्रेण उदिता सिद्धिः येषां ते संकल्पमात्रोदितसिद्धयः ।
हिन्दी-"अयोध्या में आकर" राम ने सुग्रीव विभीषण आदि मित्रों का, काल्पनिक नई. नई अनेक प्रकार की भोग्य वस्तुओं से ऐसा स्वागत-सत्कार किया कि वे सब मन में आश्चर्यचकित हो गये। क्योंकि संकल्प-मात्र से उनकी अभिलषित बस्तु तुरन्त प्राप्त हो जाती थी। अर्थात् किसी भी वस्तु के लिये कहने या माँगने की आवश्यकता नहीं पड़ी थी ॥ १७ ॥