________________
१८२
रघुवंशे
पुरःसरः यः विभीषणः इति पुरःसरविभीषणस्तेन दर्शितस्तेन पुरःसरविभीषणदर्शितेन । मद्यास्तं महीतलम् । अदूरं महीतलं यस्य स तेन अदरमहीतलेन । भंगिभिः रचिताः स्फटिकाः यस्मिन् स तेन भंगिरचितस्फटिकेन ।
हिन्दी--सेवा करने में चतुर सुग्रीव के हाथ का सहारा लेकर रामजी, आगे-आगे चलने वाले विभीषण से दिखाए ( बताए ) गए तथा कला एवं सुन्दरतापूर्वक जिसमें स्फटिक की मणि जड़ी हुई थो ऐसे सीढ़ियों के रास्ते उस विमान से उतरे। वे सीढियाँ भूमि तक लगो थीं ॥ ६९ ॥
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
___ सभ्रातरं भरतमणंपरिग्रहान्ते । पर्यश्रुरस्वजत मूर्धनि चोपजनौ
तद्भक्त्यपोढपितृराज्यमहाभिषेके ॥ ७० ॥ प्रयतः स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्याय॑स्य परिग्रहः स्वीकारस्तस्यान्ते पर्यश्रुः परिगतानन्दवाष्पः सन् भ्रातरं भरतमस्त्रजदालिङ्गत् । तस्मिन् रामे भक्त्यापोढः परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्धन्युपजघ्रौ च । 'घ्रा गन्धोपादाने' लिटि रूपम् ॥
अन्वयः-प्रयतः सः इक्ष्वाकुवंशगुरवे प्रणम्य, अर्घ्यपरिग्रहान्ते पर्यश्रः सन् भ्रातरं भरतम् अस्वजत् , तद्भक्त्यपोढपितृराज्यमहाभिषेके मूर्धनि उपजघौ च ॥
व्याख्या-प्रयतः= आत्मसंयमी जितेन्द्रियः इत्यर्थः । सः रामः इक्ष्वाकोः = वैवस्वतमनुपुत्रस्य वंशः = कुलं तस्य गुरुः पुरोहितस्तस्मै इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नत्वा अय॑स्य अर्घार्थजलस्य परिग्रहः-स्वीकारस्तस्य अन्तः =अवसानं तस्मिन् अर्घ्यपरिग्रहान्ते परिंगतानि अश्रूणि=आनन्दाश्रूणि यस्य स पर्यश्रुः सन् भ्राजते इति भ्राता तं भ्रातरं भरतं, भरतनामानमनुजम् अस्वजत्=आलिंगत् । तस्मिन् =रामे भक्तिः =अनुरागः तया अपोढः= परिहृतः पितुः= जनकस्य राज्ये राजकर्मणि महाभिषेकः =अधिकारप्राप्त्यर्थ जलस्नानम् येन सः तस्मिन् तद्भक्त्यपोढपितृराज्यमहाभिषेके मूर्धनि मस्तके उपजघ्रौ=जिघ्रति स्म ।
समासः-इक्ष्वाकोः वंशः इक्ष्वाकुवंशस्तस्य गुरुस्तस्मै इक्ष्वाकुवंशगुरवे । अय॑स्य परिग्रहः अर्घ्यपरिग्रहस्तस्य अन्तस्तस्मिन् अर्घ्यपरिग्रहान्ते। परिगतानि अश्रूणि यस्य स पर्यश्रुः । महांश्चासौ अभिषेकः महाभिषेकः । पितुः राज्यमिति पितृराज्यं, तस्मिन् भक्तिस्तद्भक्तिः, तद्भक्त्या अपोढः पितृराज्ये महाभिषेकः येन सः तस्मिन् तथोक्ते ।
हिन्दी-बड़े संयमी नम्र राम ने वैवस्वत मनु के पुत्र इक्ष्वाकु के कुलगुरु वसिष्ठजी को प्रणाम करके फिर अर्घजल स्वीकार करने के अनन्तर आँखों में आँसू भरकर भाई भरत का आलिंगन किया । ( गले लगाया ) फिर भरतजी के उस मस्तक को सुंघा, जिसने राम की भक्ति के कारण पिता के राज्य के अभिषेक राज्यतिलक को त्याग दिया था ॥ ७० ॥