Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
चतुर्दशः सर्गः
१९३ णमिति हिमं, हिमप्रधानोऽद्रिः, हिमाद्रिः= हिमालयः, हिमाद्रेः निस्यन्दः =वारिप्रवाहः, इति हिमाद्रिनिस्यन्दः इव = यथा बिभेद = बिभिदे । पुत्रागमानन्देन शोको निवारितः। ___ समासः-आनन्दात् जातः आनन्दजः। शोकात् जातं शोकजम् उष्णेन तप्तमिति उष्णतप्तम् , तत् । गंगा च सरयूश्चेति गंगासरवौ, तयोः गंगासरवोः। हिमप्रधानोऽद्रिः हिमाद्रिस्तस्य निस्यन्दः इति हिमाद्रिनिस्यन्दः ।
हिन्दी-कौसल्या और सुमित्रा के ( आँख से बहे ) आनन्द से उत्पन्न शीतल आँसुओं ने दुःख के गरम आँसुओं को उसी प्रकार ठण्डा कर दिया, जिस प्रकार कि गरमी से तपे हुए गंगा और सरयू नदी के जल को, हिमालय से बहकर आया शीतल ( बोला ) जल ठण्डा कर देता है ॥ ३ ॥
ते पुत्रयोनैर्ऋतशस्त्रमार्गानानिवाङ्गे सदयं स्पृशन्त्यौ ।
अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दमकामयेताम् ॥ ४ ॥ ते मातरौ पुत्रयोरङ्गे शरीरे नैर्ऋतशस्त्राणां राक्षसशस्त्राणां मार्गान्त्रणानार्दान्सरसानिव सदयं स्पृशन्त्यौ क्षत्त्रकुलाङ्गनानामोप्सितमिष्टमपि वीरसूवारमातेति शब्दं नाकामयेताम् । वोरप्रसवो दुःखहेतुरिति भावः॥
अन्वयः–ते पुत्रयोः अंगे नैर्ऋतशस्त्रमार्गान् आर्द्वान् सदयं स्पृशन्त्यौ क्षत्रकुलांगनानाम् ईप्सितम् अपि वीरसूशब्दं न अकामयेताम् ।
व्याख्या-सा च सा च ते = कौसल्यासुमित्रे, मातरौ पुत्रश्च पुत्रश्च पुत्रौ तयोः पुत्रयोःरामलक्ष्मणयोः अंगे=शरीरे, नियता ऋतिः घृणा यस्यां सा निर्ऋतिः, "ऋतिर्गतौ घृणायांच स्पर्धायां च शुभेऽपि च" इति रमसः । निर्ऋतेः=नारकीयायाः अलक्ष्म्याः अपत्यानि नैर्ऋताः =राक्षसाः तेषां शस्त्राणि = अस्त्राणि तेषां मार्गाः =व्रणास्तान् नैर्ऋतशस्त्रमार्गान् आर्द्वान् =सरसान् इव = यथा सद्यः संलग्नान् इवेत्यर्थः । दयया सह सदयं = सकृपं यथा तथा स्पृशन्त्यौ संस्पर्शनं कुर्वन्त्यौ क्षत्राणां = क्षत्रियाणां कुलं = वंशः तस्य अंगनाः = वध्वस्तासां क्षत्रकुलांगनानाम् =क्षत्रियकुलोत्पन्नस्त्रीणाम् ईप्सितम् = अभीष्टमपि वीरं सूते इति वीरसूः = वीरमाता इति शब्दः =नाम तं वीरसूशब्दम् । “वीरमाता तु वीरसूः" इत्यमरः । न अकामयेतां न ऐच्छताम् , यतोऽयं दुःखहेतुरित्यर्थः।।
समासः-नैर्ऋतानाम् शस्त्राणि तेषां मार्गास्तान् नैर्ऋतशरूमार्गान् । दयया सहितमिति सदयम् । क्षत्राणां कुलानि क्षत्रकुलानि, तेषाम् अंगनास्तासां क्षत्रकुलाङ्गनानाम् । वीरसूः इति शब्दस्तं वीरसूशब्दम् ।
हिन्दी-कौसल्या और सुमित्रा अपने पुत्रों के शरीर पर "लगे हुए" राक्षसों के शस्त्रों के घाव चिह्नों को बड़ी दयापूर्वक इस प्रकार स्पर्श करती हुई, मानों ताजे घाव हों, क्षत्रो कुल की स्त्रियों को अभीष्ट भी वीरजननी इस शब्द की अनिच्छा को, अर्थात्