Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
प्रवृत्तिः भरतः कैकेयीपुत्रः सेनायां समवेता सैन्या स्तैः सह वर्तते इति ससैन्यः = सैनिकैः सहितः सन् मां = रामं प्रत्युद्गतः = संभावयितुं समागतः इत्यहं शंके तर्कयामि, इति शेषः ।
समासः-विशेषेण रक्ता, विरक्ता, विरक्ता चासौ संध्या, विरक्तसंध्या, विरक्तसन्ध्यावत् कपिशमिति विरक्तसन्ध्याकपिशम् । हनूमता कथिता प्रवृत्तिः यस्मै स हनूमत्कथितप्रवृत्तिः । सैन्यैः सहितः ससैन्यः।।
हिन्दी-लाल सन्ध्या के समान भूरे सुनहरे रंग की धूली पृथिवी से जो सामने उठ रही है, इससे मालूम होता है कि हनूमान जी से हमारे आने का समाचार जानकर सेना सहित भरत मेरा स्वागत करने आ रहा है ॥ ६४ ॥
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा निवृताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ ६५ ॥ किंच। साधुः सज्जनः स भरतः । 'साधुर्वार्धषिके चारौ सज्जने चापि वाच्यवत्' इति विश्वः। पालितसंगराय पालितपितृप्रतिज्ञाय मे मह्यमनघामदोषां भोगाभावादनुच्छिष्टां किंतु संरक्षितां श्रियम् । मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणो संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम् । 'तत्त्वे त्वद्धाञ्जसा द्वयम्' इत्यमरः ॥
अन्वयः-साधुः सः पालितसंगराय मे अनघां संरक्षितां श्रियं, मृधे खरादीन् हत्वा निवृत्ताय मे लक्ष्मणः त्वाम् इव प्रत्यर्पयिष्यति इति अद्धा ।
व्याख्या-किंच साध्नोति धर्म, परकार्य वा स साधुः सज्जनः आर्यः सः = महाकुलीनः भरतः पालितः संरक्षितः संगरः = पितुराशा येन स तस्मै पालितसंगराय मे =मह्यं रामाय नारित अघं = पापं यस्याः सा ताम् अनघां = निष्कलंका, भोगराहित्येनानुच्छिष्टां किन्तु सम्यग् रक्षिता तां संरक्षितां = सम्यक्पालितां श्रियं = राज्यलक्ष्मी मर्धनं मृधं तस्मिन् मृधे = युद्धे खरः आदिः येषां ते खरादयस्तान् खरादीन् = खरदूषणप्रभृतीन् राक्षसान् हत्वा = मारयित्वा निवृत्ताय = प्रत्यागताय मे= रामचन्द्राय लक्ष्मणः = सौमित्रिः संरक्षितामनयां त्वां = सीताम् इव = यथा प्रत्यर्पयिष्यति = प्रदास्यति, इति अतं = सततगमनं धयति, दधाति वा अद्धा सत्यम् ।
समासः–पालितः संगर: येन स तस्मै पालितसंगराय । नास्ति अघं यस्याः सा अनघा ताम् अनघाम् । सम्यक् रक्षिता तां संरक्षिताम् । खरः आदिः येषां ते तान् खरादीन् ।
हिन्दी-सज्जन आर्य भरत, पिता की आज्ञा का पालन करने वाले, वनवास से लौटे हुवे मुझे, निदोष एवं सुरक्षित राज्यलक्ष्मी को उसी प्रकार लौटा देगा। सौंप देगा। जिस प्रकार खरदूषण आदि हजारों राक्षसों को युद्ध में मारकर लौट आने पर लक्ष्मण ने सुरक्षित सीता मुझे सौंप दी थी।
विशेष-अनघा से तात्पर्य यह है कि भरत जी ने राज्य लक्ष्मी का उपभोग नहीं किया था । लक्ष्मण जी की तरह केवल रक्षामात्र की थी, अतः निर्दोष कहा है ॥ ६५ ॥