________________
रघुवंशे
समासः-तव चरणः त्वच्चरणः अरविन्दम् इवेति त्वच्चरणारविन्दं, तेन विश्लेषः, इति त्वच्चरणारविन्दविश्लेषः तेन यत् दुःखं तस्मात् त्वच्चरणारविन्दविश्लेषदुःखात् । बद्धं मौनं येन तत् बद्धमौनम्।
हिन्दी-हे सीते ! देखो, यह वही स्थान है जहाँ पर तुम्हें ढूँढते हुए, मैंने जमीन पर पड़े हुए, तुम्हारे एक नूपुर ( पाजेब धुंधरु ) को देखा था । वह ऐसा लग रहा था, मानो तुम्हारे चरण-कमल के वियोग से उत्पन्न दुःख के कारण उसने मौन धारण कर लिया हो।
विशेष—इस पद्य में दुःखरूप गुण, हेतु रूप से उत्प्रेक्षित है। इस लिये कि-अचेतन नूपुर में वास्तविक दुःख नहीं हो सकता ॥ २३ ॥
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवामिः ॥ २४ ॥ हे भीरु भयशोले। 'ऊतः' इत्यूङ । ततो नदीत्वात्संबुद्धौ ह्रस्वः। त्वं रक्षसा रावणेन यतो येन मार्गेण। सार्वविभक्तिकस्तसिः। अपनीतापहृता तं मार्ग वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टयाऽसूचयन्नित्यर्थः । 'शाखा वृक्षान्तरे भुजे' इति विश्वः। लतादीनामपि ज्ञानमरत्येव । तदुक्तं मनुना--'अन्तःसंज्ञा भवन्त्येते सुखदुःख समन्विताः' इति ।
अन्वयः-हे भीरु ! त्वं रक्षसा यतः अपनीता मार्ग वक्तुम् अशक्नुवत्यः एताः लताः आवर्जितपल्लवाभिः शाखाभिः कृपया मे अदर्शयन् ।
व्याख्या हे भीरुभयशोले ! त्वं सीता रक्षसा=रावणेन यतः =येन मार्गेण नीता = अपहृता तं = पन्थानं वक्तुं = कथयितुम् अशक्नुवत्यः = असमर्थाः लतानामचेत. नत्वेन वागिन्द्रियाभावादित्यर्थः । एताः = पुरो दृश्यमानाः लताःव्रतत्यः आवजिताः = नमिताः पल्लवाः = किसलयाः याभिस्ताः आवर्जितपल्लवास्ताभिः आवर्जित पल्लवाभिः = पल्लवरूपहस्ताभिरित्यर्थः। शाखाभिः= स्वावयवभूताभिः द्रुमांशेरित्यर्थः । कृपया = अनुकम्पया मे = मह्यम् अदर्शयन् = असूचयन् मार्गस्य कथनेऽसमर्धाः लताः पल्लवरुपहस्तचेष्टया तव मार्ग सूचितवत्यः । तासामपि ज्ञानमस्त्येवेत्यर्थः ॥
समासः-आवर्जिताः पल्लवाः याभिस्ताः आवर्जितपल्लवाः, ताभिः आवर्जितपल्लवाभिः ।
हिन्दी-हे भयशीले सीते ! तुम्हें रावण जिस मार्ग से चुराकर ले गया था उस मार्ग को वाणी ( जबान ) न होने के कारण बताने में असमर्थ इन लताओं ने अपनी पत्तों वाली शाखाओं को उधर झुकाकर वह रास्ता कृपाकर मुझे दिखा दिया था। अर्थात् लता बोलने में असमर्थ थी, किन्तु उन्हें ज्ञान था अतः अपनी शाखारूपी हाथ की चेष्टा से उस मार्ग का इशारा कृपा करके कर ही दिया था ॥ २४ ॥