Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
नीचे ऋषि बैठे हैं वे ) ये वृक्ष भी, "आश्रम के वृक्षों के नीचे" वेदी पर बीच में बैठे हुए, तथा वायु न चलने के कारण स्थिर खड़े ऐसे सुन्दर लग रहे हैं मानो ये भी योग समाधि
में बैठे हैं।
विशेष-वाम पाद को दाहिनी जंघा पर, एवं दक्षिण पाद को वाम जंघा पर रखकर बैठना, वीरासन है। इससे मन और इन्द्रियों को वश में किया जाता है तथा साधकों को सिद्धिप्रद है। ऐसा योगशास्त्र में वर्णन है ॥ ५२ ॥
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिभणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥ ५३ ॥ त्वया पुरस्तात्पूर्व य उपयाचितः प्रार्थितः। तथा च रामायणे-'न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीद् । नमस्तेऽस्तु महावृक्ष पालयेन्मे व्रतं पतिः ॥' इति । श्याम इति प्रतीतः स वटोऽयं फलितः सन् सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव विभाति ॥
अन्वयः-त्वया पुरस्तात् उपयाचितः श्यामः इति प्रतीतः सः वटः अयं फलितः सन् सपद्मरागः गारुडानां मणीनां राशिः इव विभाति ।
व्याख्या-त्वया =सोतया पूर्वस्मिन् इति पुरस्तात् = पूर्व वनगमनकाले उपयाचितः= प्रार्थितः, हे वटवृक्ष ! मे व्रतं पतिः पालयेत् इत्येवं प्रार्थित इत्यर्थः। श्यामते मनोऽस्मात् श्यामः इति नाम्ना प्रतीतः = विश्रुतः प्रसिद्ध इत्यर्थः । “श्यामोऽम्बुदे शितो, हरिते प्रयागबटे" इति हैमः । सोऽयं वटः न्यग्रोधः प्रयागस्थवटवृक्षः। फलितः = फलयुक्तः सन् पद्ममिव रागो यस्य स पद्मरागः । पद्मरागेण = शोणरत्नेन सह वर्तमानः सपद्मरागः गरुडस्य इमे गारुडास्तेषां गारुडानां = गारुत्मतानां मणीनां = हरिन्मणीनां राशिः =समूहः इव = यथा विभाति = शोभते । “शोणरत्नं लोहितकः पद्मरागः" इत्यमरः।
समासः-पद्ममिव रागो यस्य स पद्मरागः । पद्मरागेण सह वर्तमानः सपद्मरागः ।
हिन्दी-हे सीते ! बनवास को जाते समय, तुमने जिससे प्रार्थना की थी, श्याम बड के नाम से प्रसिद्ध यह वही वटवृक्ष है। वह "इस समय” फलों से ( लाल-लाल फलों से ) लदा हुआ होकर यह ऐसा लग रहा है मानो पन्नों के ढेर में लालमणि भरी हो।
विशेष-प्रयाग का अक्षयवट श्यामवट है। सीता जी ने इसके पास जाकर प्रार्थना की थी हम अपना व्रत पालन कर सकुशल लौट आवें ॥ ५३ ॥ क्वचित्-इत्यादिभिश्चतुभिः श्लोकैः प्रयागे गङ्गायमुनासंगमं वर्णयति
क्वचित्प्रमालेपिभिरिन्द्रनीलमुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानामिन्दीवरैरुस्खचितान्तरेव ॥ ५४ ॥