________________
रघुवंशे
समासः—आत्तः गन्धः येषां ते आत्तगन्धाः । धर्मः उत्तरः यस्य स तं धर्मोत्तरम् ।
हिन्दी - पर्वत के पंख काटने वाले, इन्द्र ने जिन के अभिमान को नष्ट ( चूर-चूर ) कर दिया था, ऐसे सैकड़ों भूधरों ( पर्वतों ) ने शरणागत की रक्षा करने वाले इस समुद्र का वैसे ही आश्रय लिया था जैसे कि शत्रुओं से पीडित एवं भयभीत राजा लोग, धर्म प्रधान तटस्थ राजा की शरण लेते हैं । अर्थात् यह सागर पीडितों का रक्षक बन्धु भी है ॥ ७ ॥
१३६
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवस्त्राभरणं बभूव ॥ ८ ॥
आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः । विवाहक्रिया च व्यज्यते । भुवो भूदेवतायाः प्रलये प्रवृद्धमरयाब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थमुखावगुण्ठनं बभूव । तदुक्तम्- 'उद्धृतासि वराहेण कृष्णेन शतबाहुना' इति ॥
अन्वयः -- आदिभवेन पुंसा रसातलात् प्रयुक्तोद्वहनक्रियायाः भुवः प्रलयप्रवृद्धम् अस्य अच्छम् अम्भः मुहूर्तवक्त्राभरणं बभूव ।
व्याख्या
1- आदौ = सर्वप्रथमं भवतीति आदिभवस्तेन आदिभवेन आदिशूकरेण पुंसा = विष्णुना, वराहरूपिणेत्यर्थः रसायाः = पृथिव्याः तलम् = अधः, तस्मात् रसातलात् = पाताललोकात् उद्वहनस्य = उद्धरणरय क्रिया = कर्म इति उद्वहनक्रिया । प्रयुक्ता = कृता उद्वहनक्रिया यस्याः सा तथोक्ता, तस्याः प्रयुक्तोद्वहनक्रियायाः कृतविवाहक्रियाया इति व्यञ्जनया लभ्यते । भुवः = पृथिव्याः प्रलीयतेऽत्र प्रलयः । प्रलये = कल्पान्ते प्रवृद्धं = वृद्धिं गतम् यत्तत् प्रलयप्रवृद्धम् अस्य = सागरस्य न च्छयतिदृष्टिमिति अच्छं = स्वच्छं निर्मलम् अम्भः = जलं मुहूर्त = किंचित्क्षणं वक्त्रस्य = मुखस्य आभरणम् = अवगुण्ठनमिति मुहूर्तवक्त्राभरणं लोकलज्जानिवारणार्थमिति भावः । बभूव = जातम् ।
समासः - रसायाः तलमिति रसातलं तस्मात् रसातलात् । प्रयुक्ता उद्वहनस्य क्रिया यरयाः सा, तरयाः प्रतोद्वहनत्रियायाः । प्रलये प्रवृमिति मलयप्रवृद्धम् । मुहूर्त वक्त्रस्य आभरणमिति मुहूर्तवक्त्राभरणम् ।
हिन्दी -- सृष्टि के आरम्भ में आदि पुरुष वराह भगवान्, जब पाताल से पृथिवी का उद्धार करके ऊपर ले आ रहे थे, उस समय प्रलय से बढा हुआ इस समुद्र का निर्मल जल क्षणभर के लिये पृथिवो के मुख का भूषण ( घुंघट ) हो गया था ।
विशेष - विवाह करके लाई जाती नायिका का घुंघट मुख की शोभा बढाता है । पृथिवी भगवान् की पत्नी है । वे भी उसे पाताल से उद्धार करके मानो विवाह कर लाये तो उस समय स्वच्छ जल ही सुन्दर घुंघट बन गया ।। ८ ।।
मुखार्पणेषु प्रकृतिप्रगमाः स्वयं तरङ्गाधरदानदक्षः । अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ।। ९ ।।