Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
विवृताननत्वाव्यात्तमुखत्वाद्धेतोः आननं विवृत्येत्यर्थः । ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चन्नूपुटानि संघट्टयन्तः सन्तः सरन्धैः शिरोभिर्जलप्रवाहानूर्व वितन्वन्ति । जलयन्त्रक्रीडासमाधिय॑ज्यते ॥
अन्वयः-अमी तिमयः विवृताननत्वात् ससत्त्वं नदीमुखाम्भः आदाय संमीलयन्तः सरन्धैः शिरोभिः जलप्रवाहान् ऊर्ध्व वितन्वन्ति ।
व्याख्या-अमी = पुरोदृश्यमानाः तिम्यन्तीति तिमयः ताम्यन्ति = आकांक्षन्तीति वा तिमयः= मत्स्यविशेषाः । तिमिर्महाकायो मत्स्यः कश्चित् सामुद्रः। तथा च "अस्तिमत्स्यस्तिमिर्नाम शतयोजनविस्तरः" इति भरतः। विवृतं = विस्फारितं मुखम् = आननं येषां ते विवृताननाः । तेषां भावस्तत्वं तस्मात् विवृताननत्वात् । मुखं विवृत्येत्यर्थः । सत्वैः = मत्स्यादिजन्तुभिः सहितं ससत्वम् नदीनां =सरितां मुखनि = सागरसरित्मिलस्थानि, तेषाम् अम्भः तत् नद्यः सरितः मुखानि =आननानि इव यस्य सः, नदीमुखः समुद्रस्तस्य अम्भः = जलमिति नदीमुखाम्भः इत्यपिकष्ट कल्पना आदाय = गृहीत्वा समुद्रजलं पीत्वेत्यर्थः । सम्मीलयन्तः = चञ्चपुटानि पिदधतः संकोचयन्त इत्यर्थः सन्तः, रमं=क्रीदां धरति, रन्धयतीतिवा रन्ध्रम् रन्धैः = छिद्रः सहितानि सरन्ध्राणि तैः सरन्]ः “रन्धं तु दूषणे च्छिद्रे" इति विश्वमेदिन्यौ । शिरोभिः = मस्तकैः जलस्य = अम्भसः प्रवाहाः= धाराः जलप्रवाहास्तान् जलप्रवाहान् ऊर्ध्वम् = उपरि, आकाशे वितन्वन्ति = प्रक्षिपन्ति, जलयंत्रक्रीडां कुर्वन्तीत्यर्थः ।
समासः-विवृतम् आननं येषां ते विवृताननास्तेषां भावस्तत्वं तस्मात् विवृताननत्वात् । सत्वैः सहितं ससत्वम् । नद्याः मुखं नदीमुखं तस्य अम्भः तत् नदीमुखाम्भः। रन्धः सहितानि सरन्ध्राणि तैः सरन्धेः । जलरय प्रवाहास्तान् जलप्रवाहान् ।
हिन्दी-“और देखो" ये सौ योजन लम्बे मगरमच्छ (हेलमछली) मुखों के खुला होने के कारण, मछलियों के सहित समुद्र के जल को पीकर मुख को बन्द कर लेते हैं। "और फिर" अपने छेद वाले शिरों से अल की धाराएँ ऊपर आकाश की ओर छोड़ रहे हैं।
विशेष-तिमि एक विशालकाय हेलमछली होती है। छोटे मोटे जीवों को लिये दिये वह पानी पीकर मुख बंद कर लेती है तो उसके मस्तक में छिद्र होने के कारण फुहारे की तरह पानी निकलने लगता है। यह सब मुँह के खुला होने तथा बन्द करने से स्वयं हो जाता है। अतः समाधि अलंकार है ॥ १० ॥
मातङ्गनकैः सहसोत्पतनिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ ११ ॥ सहसोत्पतद्भिर्मातंगदर्मातंगाकारैाहैविधा भिन्नान्समुद्रफेना न्पश्य । फेना एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥
अन्वयः-सहसोत्पतद्भिः मातंगनः द्विधा भिन्नान् समुद्रफेनान् पश्य ये एषां कपोलसंसर्पितया कर्णक्षणचामरत्वं व्रजन्ति ।