________________
१०
त्रयोदशः सर्गः
१४५
क्वचित् धनानां = मेधानां पथा संचरते, क्वचित् पततां = पतत्त्रिणां पक्षिणां च पथा संचरते, सर्वमार्गेण सर्वविधिना च ममेच्छानुसारं प्रचलतीत्यर्थः ।।
समासः-यथा विधा यस्य स यथाविधः ॥
हिन्दी-हे सीते, यह पुष्पक विमान, मेरे मन की इच्छानुसार जैसे मैं चाहता हूँ वैसे ही चलता है। तुम देखो; कभी तो देवताओं के मार्ग से चलता है और कभी बादलों के मार्ग से चलता है तथा कभी पक्षियों के मार्ग से चलता है ॥ १९ ॥
असौ महेन्द्र द्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ २० ॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिर्मागर्गच्छतीति त्रिमार्गगा गङ्गा। 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । तस्या वीचीनां विमर्दैन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसंचारो दर्शितः ॥
अन्वयः-महेन्द्रद्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः असौ आकाशवायुः दिनयौवनोत्थान् ते मुखे स्वेदलवान् आचामति ।
व्याख्या--महांश्चासौ इन्द्रश्च महेन्द्रः =महैश्वर्यशालीत्यर्थः । महेन्द्रस्य - देवेन्द्रस्य द्विपः = ऐरावतस्तस्य दानं = मदजलं तस्य गन्धः = परिमल: अस्ति यस्यासौ महेन्द्रद्विपदानगन्धिः। त्रीन् मार्गान् गच्छतीति त्रिमार्गगा, त्रयाणां मार्गाणां समाहारः त्रिमार्ग तेन गच्छतीति वा त्रिमार्गगा। त्रिमार्गगायाः = गंगायाः वीचयः = तरंगास्तेषां विमर्दः = संपर्कः तेन शीतः = शीतलः, इति त्रिमार्गगावीचिविमर्दशीतः “भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिः" इत्यमरः। अत्र ऊर्मिः वीचिः वास्त्रियामिति । असौ= अनुभूयमानः आकाशस्य = अम्बरस्य वायुः= पवनः दिनस्य = दिवसस्य यौवनं = मध्याह्नः तेन उत्थाः = उत्पन्नाः संभवास्तान् दिनयौवनोत्थान् ते = तव मुखे = आनने स्वेदस्य = धर्मस्य लवाः= कणाः, बिन्दवस्तान् स्वेदलवान् “घों निदावः स्वेदः स्यात्" इत्यमरः । आचामति = परिहरति प्रोञ्छतीत्यर्थः । अनेन देवमार्गसंचारो व्यज्यते ।
समासः-महांश्चासौ इन्द्रः महेन्द्रः। महेन्द्रस्य द्विपः, महेन्द्रद्विपस्तस्य दानं तस्य गन्धः, इति महेन्द्रद्विपदानगन्धः, सोऽस्यास्तीति महेन्द्रद्विपदानगन्धिः । त्रयाणां मार्गाणां समाहारस्त्रिमार्ग तेन गच्छतीति त्रिमार्गगा तस्याः वीचयस्तेषां विमर्दस्तेन शोतः इति त्रिमार्गगावीचिविमर्दशीतः। आकाशस्य वायुरिति आकाशवायुः। दिनस्य यौवनं दिनयौवनम् , तेन उत्थाः तान् दिनयौवनोत्थान् । स्वेदस्य लवारतान् स्वेदलवान् ।
हिन्दी-इन्द्र के हाथी ऐरावत के मदजल की सुगन्धि वाला, तथा गंगा ( आकाशगंगा ) की लहरों के छूने से शीतल यह आकाश का वायु हे सीते, तुम्हारे मुखपर दोपहर की गमों से उत्पन्न ( आए हुए ) पसोने की बूंदों को पी रहा है। अर्थात् पोंछ रहा है।
विशेष-त्रिमार्गगा–तीन मार्गो-आकाश, मृत्युलोक तथा पाताललोक में जाने वाले तीन स्रोतों से बहने वाली गंगाजी। महाभारत में लिखा है कि "क्षितौ तारयते मान्नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता" ॥ २० ॥