Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
११४
रघुवंशे इन्द्रजितः, रावणपुत्रस्य नादं गर्जनम् सिंहनादमित्यर्थः। अन्यत्र मेघपक्षे गर्जितम् च इन्द्रस्य = मघोनः आयुधं = धनुरिति इन्द्रायुधं तस्य प्रभा = कान्तिरिव प्रभा यस्य तत् इन्द्रायुधप्रभं तत् धनुः मेघनादचापं च किंचित् = अल्पमपि न पर्यशेषयत् =न अवशेषितवान् , लक्ष्मणः मेघनादं तद्धनुश्च विनाशितवानित्यर्थः।
समासः-मेघवत् नादः यस्य स मेघनादस्तस्य मेवनादस्य । इन्द्रस्य आयुधमिति, इन्द्रायुधं तस्य प्रभा इव प्रभा यस्य तत् इन्द्रायुधप्रभम् , तत् । शरदः कालः शरत्कालः ।
हिन्दी-जिस प्रकार शरदृतु मेघ के गर्जन तथा सातरङ्ग वाले इन्द्रधनु को समाप्त कर देता है, उसी प्रकार लक्ष्मण ने मेघनाद के सिंहगर्जन को और इन्द्रधनुष के समान चमचमाते उसके धनुष को भी समाप्त कर दिया। अर्थात् उसके धनुष को तोड़ डाला और मेघनाद को मार डाला ॥ ७९ ॥
कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥ कपीन्द्रेण सुग्रीवेण स्वसुः शूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः कुम्भकर्णष्टङ्कन शिलाभेदकशस्त्रेण छिन्ना मनःशिला रक्तवर्णधातुविशेषो यस्य स तथोक्तः। 'टङ्कः पाषाणदारणः' इति, 'धातुर्मनःशिलाद्यद्रेः' इति चामरः । शृङ्गी शिखरीव । रामं रुरोध ॥
अन्वयः-कपीन्द्रेण स्वसुः तुल्यावस्थः कृतः कुम्भकर्णः टंकच्छिन्नमनःशिलः शृंगी इव रामम् रुरोध ।
व्याख्या-कपीनां = वानराणाम् इन्द्रः राजा, कपीन्द्रस्तेन कपीन्द्रेण = सुग्रीवेण सुष्टु अस्यति या सा स्वसा तस्याः स्वसुः =भगिन्याः शूर्पणखाया इत्यर्थः। तुल्या = नासिकाकर्णकर्तनेन समाना अवस्था = दशा यस्य स तुल्यावस्थः कृतः = विहितः कुम्भौ इव कर्णौ यस्य स कुम्भकर्णः = रावणभ्राता, टङ्केन = पाषाणदारणेन छिन्ना = भिन्ना मनःशिला रक्तवों धातुविशेषः यस्य स टंकच्छिन्नमनःशिलः, मनःशब्दवाच्या शिला मनःशिला। "टंकः पाषाणदारणः" इत्यमरः। शृंगाणि = शिखराणि सन्ति अस्थासौ शृंगी= पर्वतः इव = यथा रामं = राघवं रुरोध =अवरुद्धवान् ।
समासः-कुम्भौ इव कौँ यस्य स कुम्भकर्णः । कपीनाम् इन्द्रस्तेन कपीन्द्रेण । तुल्या अवस्था यस्य स तुल्यावस्थः । टङ्केन छिन्ना मनःशिला यस्य स टङ्कच्छिन्नमनःशिलः ।
हिन्दी-नाक कान काटकर वानरराज सुग्रीव के द्वारा शूर्पणखा के समान किये गए दशा वाले कुम्भकर्ण ने राम को उस पर्वत की तरह रोक दिया, जिसकी मैनसिल की चट्टाने टांकियों से काट दी गई हैं। अर्थात् मैनसिल की चट्टान काटने से लाल-लाल रङ्ग पर्वत से झरने लगता है, वैसे ही कुम्भकर्ण के नाक कान कटने से रक्त की धारा निकली थी, और पर्वताकार तो वह था ही। इसी दशा में राम के सामने आ खड़ा हुआ था ॥ ८० ॥
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् । रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥