Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
१३२
रघुवंशे
विशेष-अन्तरिक्ष में तारा नक्षत्र समूह के बीचों बीच तिरछी एक सफेद रेखा बनी रहती है वह छायापथ, आकाशगंगा तथा पितरों का मार्ग कहाता है एवं यह सेतु तुम्हारे लिये किया गया मेरा महान् बड़ा भारी प्रयत्न है। अतः तुम देखो (यह राम ने सीताजी से कहा था) ॥ १ ॥
गुरोयियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे।
तदर्थमुर्वीमवदारयद्भिः पूर्वः किलायं परिवर्धितोःनः ॥३॥ यियक्षोर्यधुमिच्छोः । यजे: सन्नन्तादुप्रत्ययः। गुरोः सगरस्य मेध्येऽश्वमेधाहें तुरंगे हये कपिलेन मुनिना रसातलं पातालं संक्रमिते सति । तदर्थमुर्वोमवदारयद्भिः खनद्भिनोंऽस्माकं पूर्ववृद्धः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यतिधे। अतो नः पूज्य इति भावः । यद्यपि तुरगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ।।
अन्वयः--यियक्षोः गुरोः मध्ये तुरंगे कपिलेन रसातलं संक्रमिते सति, तदर्थम् उर्वोम् अवदारयद्भिः नः पूर्वैः अयं परिवर्धितः किल।
व्याख्या-यष्टुमिच्छति यियक्षति । यिपक्षतीति यियक्षुस्तस्य यियक्षोः = यशं कर्तुमभिलषतः गुरोः = पूज्यरय सगरस्य मेध्ये = पवित्रे अश्वमेधयाग इत्यर्थः । “पूतं पवित्रं मेध्यं च" इत्यमरः । तुरेण= वेगेन गच्छतीति तुरंगस्तस्मिन् तुरंगे = अश्वे कपि वर्ण लातीति कपिलस्तेन कपिलेन = महर्षिणा रसः अस्यामस्तीति सा रसा रसायाः पृथिव्याः तलम् = अधः, इति रसातलं = पातालमित्यर्थः । संक्रमिते सति तस्मै इदं तदर्थम् = अश्वमेधीयाश्वार्थम् उवौं = पृथिवीम् अवदारयद्भिः= खनद्भिः नः = अस्माकं पूर्वेः = पुरातनैः वृद्धैः सगरपुत्ररित्यर्थः अयं = समुद्रः परिवर्धितः परितः विस्तारितः किल = इतिहासप्रसिद्धः। अत एवायं सागरः अस्माकं पूज्य इति भावः । यद्यपि अश्वापहारक इन्द्रः न तु कपिलमुनिस्तथापि तुरंगस्य कपिलमुनिसमीपे दर्शनात् , कपिल एवापहर्ता इति सगरपुत्राणां भ्रान्तिस्तदनुसारमेव कविना कपिलेन संक्रमिते,इति वर्णितम् ।
समासः--रसायाः तलमिति रसातलम् तत् । तस्मै इदं तदर्थम् ।
हिन्दी-अश्वमेध यज्ञ करने वाले हमारे पूज्य सगर राजा के पवित्र, अश्वमेधयज्ञ के घोड़े को, जब कपिल मुनि पाताल लोक में ले गये थे, तब उस घोड़े की खोज करने के लिये, पृथिवी को खोदने वाले हमारे पूर्वज सगरजी के पुत्रों ने उस समुद्र को बढ़ाया था। अर्थात् पृथिवी को खोदकर लम्बा चौड़ा विस्तार किया था । अतः यह मेरा पूज्य है।
विशेष—यद्यपि घोड़े को इन्द्र ने चुराया था किन्तु यज्ञ का वह घोड़ा सगरपुत्रों को कपिल मुनि के आश्रम में मिला था । अतः सगरपुत्रों को यह भ्रम हो गया था कि कपिल ने ही चराया है। यही मानकर कवि ने कपिल मुनि का नाम लिखा है। इन्द्र ने चुराकर ऋषि के आश्रम में बान्ध दिया था ॥३॥