________________
द्वादशः सर्गः
१०१
वन रामकृतेन निर्धूतशापस्य देवभुवं गतस्य कबन्धस्य रक्षोविशेषस्योपदेशतो रामस्य समानव्यसने समानापदि । सख्यार्थिनोत्यर्थः । हरौ कपौ सुग्रीवे । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । सख्यं मुमूर्च्छ ववृधे ॥
अन्वयः - वधनिर्धूतशापस्य कवन्धस्य उपदेशतः रामस्य समानव्यसने हरौ सख्यं मुमूर्च्छ ।
=
व्याख्या– वधेन = रामकृतमारणेन निर्धूतः = नष्टः शापः = आक्रोशः । यस्य स वधनिर्धूतशापस्तस्य वधनिधूर्तशापस्य, रामहस्तेन मरणात् शापनिर्मुक्तस्य अत एव दिव्यदेहधारिणः गन्धर्वस्येत्यर्थः | कबन्धस्य = एतन्नामराक्षस्य उपदेशनम् उपदेशः उपदेशादिति उपदेशत: : कथनात् । रामस्य = रामचन्द्रस्य समानं = तुल्यं व्यसनं = विपत्तिः यस्य स तस्मिन् समानत्र्यसने वानरे, सुग्रीवे “हरिश्चन्द्रार्क वाताश्वशुकमेकय माहिषु । कप सिंहे" इति मेदिनी । समानः ख्यायते जनैरिति सखा । सख्युः भावः कर्म वा सख्यं = मैत्री मुमूर्च्छ = ववृधे प्रवृद्धमित्यर्थः ।
समासः - वधेन निर्धूतः शापः यस्य स वधनिधूर्तशापः तस्य वधनिधूर्तशापस्य । समानं व्यसनं यस्य स समानव्यसनस्तस्मिन् समानव्यसने ।
हिन्दी- - राम के हाथ से मरने के कारण शाप से मुक्त हुए, कबन्ध के कहने से एक्सी विपत्ति वाले, सुग्रीव में राम की मित्रता घनिष्ठ हो गई ।
विशेष – कबन्ध नामक राक्षस ने ब्रह्माजी को प्रसन्न करके दीर्घायु का वर प्राप्त किया था। इसी गर्व से उसने इन्द्र पर चढ़ाई की, इन्द्र के वज्र से कबन्ध की मृत्यु तो न हुई । किन्तु उसका सिर गर्दन पेट में चला गया । प्रार्थना करने पर इन्द्र ने उसे योजन तक फैलने वाली भुजा तथा पेट में पैनी जोड़ देदी थी। वह अपने घेरे में आए प्राणियों को खाता था । रामलक्ष्मण भो इसकी चपेट में आ गए थे। तभी रामबाण से मरकर शाप से छूट गया और दिव्य गन्धर्व हो गया था । इसी ने सुग्रीव का पता बताकर मित्रता करने को भी कहा था । महाभारत के अनुसार किसी ऋषि के शाप से विश्वावसु नामक गन्धर्व राक्षस बन गया था। राम दर्शन से शाप छूट गया था ॥ ५७ ॥
स हत्वा वालिनं वीरस्तत्पदे चिरकांक्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ ५८ ॥
वीरः स रामो वालिनं सुग्रीवाग्रजं हत्वा चिरकाङ्क्षिते तत्पदे वालिस्थाने । धातोः स्थान आदेशमिव। आदेशभूतं धात्वन्तरमिवेत्यर्थः । सुग्रीवं संन्यवेशयत्स्थापितवान् । यथा 'अस्तेर्भूः ' इत्यस्तिधातोः स्थान आदेशो भूधातुरस्तिकार्यमशेषं समभिधत्ते तद्वदिति भावः । आदेशो नाम शब्दान्तरस्य स्थाने विधीयमानं शब्दान्तरमभिधीयते ॥
अन्वयः - वीरः सः वालिनं हत्वा चिरकांक्षिते तत्पदे धातोः स्थाने आदेशम् इव सुग्रीवं संन्यवेशयत् ।
व्याख्या–वीरयतीति वीरः = शूरः सः = रामः बालः = केशः उत्पत्तिस्थानत्वेन विद्यतेऽरय स बाली तथाहि - 'बालेषु पतितं बीजं बाली नाम बभूव ह ।' तं वालिनं वानरराजं हत्वा =
=