Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
९४
रघुवंशे अन्वयः-उदायुधान् आपततः दृप्तान् तान् प्रेक्ष्य, राववः चापे विजयाशंसां लक्ष्मणे सीतां च निदधे।
व्याख्या-उद् = उद्यतं, गृहीतमित्यर्थः आयुधं = शस्त्रं यैस्ते, तान् उदायुधान् , आयुध्यन्तेऽनेनेति आयुधम् । आपतन्तीति आपतन्तम्तान् आपततः = आगच्छतः दृप्तान् = गर्वितान् तान् = खरादीन् राक्षसान् प्रेक्ष्य = अवलोक्य राघवः रामः चपस्य = वंशविशेषरय विकारश्चापं तस्मिन् चापे = धनुषि विजयस्य = जयस्य आशंसा =आशा तां विजयाशंसां निदधे लक्ष्मणे अनुजे सीतां = वैदेहीं च निदधे = निहितवान् । सीतासंरक्षणार्थ लक्ष्मणं नियुज्य रामः स्वयं योद्धं सन्नद्धोऽभूदित्यर्थः।
समासः-उद्यतम् आयुधं यैस्ते उदायुधास्तान् उदायुधान् । विजयस्य आशंसा विजयाशंसा तां विजयाशंसाम् ।
हिन्दी-अस्त्र-शस्त्र हाथ में उठाए सामने से आते हुए, घमण्डी खरादि राक्षसों को देख कर राम ने अपने धनुष पर विजय की आशा रखी और लक्ष्मण के पास सीता जी को रख दिया अर्थात् लक्ष्मण को सीता की रक्षा के लिये कुटी पर रखकर स्वयं धनुष मात्र लेकर युद्ध के लिये तैयार हो गए ॥ ४४ ॥ __एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजी तावांश्चददृशे स तैः ॥ ४५ ॥ दाशरथी राम एकोऽद्वितीयः । यातुधानाः कामं सहस्रशः सन्तोति शेषः। तैर्यातुधानैस्तु स राम आजौ ते यातुधाना यावन्तो यावत्संख्याका एव तावांस्तावत्संख्याकश्च ददृशे ॥
अन्वयः–दाशरथिः एकः यातुधानाः कामं सहस्रशः “सन्ति' । तु तैः सः आजौ ते यावन्तः एव तावान् च ददृशे।
व्याख्या-दशरथस्य अपत्यं पुमान् दाशरथिः = रामः एकः = केवलः, अद्वितीयः । यातूनि =रक्षांसि दधाति = पुष्णन्ति, स्वजातिपोषकत्वात्, इति यातुधानाः =राक्षसाः कामं = यथेष्टं, सहस्रशः =असंख्याः सन्तीति शेषः। तु = किन्तु तैः =राक्षसः सः रामः आजौ= युद्धे ते = यातुधानाः, खराद्याः यावन्तः = यावत्संख्यका एव आसन् तावान् = तावत्संख्यकः ददृशे = दृष्टः ।
हिन्दी-दशरथ पुत्र राम अकेले थे और राक्षस हजारों थे। किन्तु युद्ध में राक्षसों को जितने ही राक्षस थे उतने ही राम दीख रहे थे। अर्थात् रामजी ऐसे कौशल से लड़ रहे थे कि प्रत्येक राक्षस यह अनुभव कर रहा था कि मुझसे ही लड़ रहे हैं ॥ ४५ ॥
असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥ ४६ ॥ अथ शुभाचारो रणे साधुचारी सदृवृत्तश्च स काकुत्स्थोऽसज्जनेन दुर्जनेन रक्षोजनेन च प्रयुक्तं प्रेषितमुच्चारितं च दूषणं दूषणाख्यं राक्षसमात्मनो दूषणं दोषमिव न चक्षमे न सेहे। प्रतिकर्तुं प्रवृत्त इत्यर्थः॥