________________
९३
द्वादशः सर्गः रामोपक्रमस्तं रामोपक्रम =रामकर्तृकप्रारम्भमित्यर्थः । नवं = नूतनं रक्षसां=राक्षसानां परिभवः = अनादरः, तिरस्कारस्तं रक्षःपरिभवम् आचख्यौ = कथयामास, सर्व कथितवतीत्यर्थः।
समासः-जनस्य स्थानमिति तत् जनस्थानम् । खरः आदिः येषां ते खरादयः तेभ्यः खरादिभ्यः। तथा विधा यस्य स तं तथाविधम् । रामस्य उपक्रमस्तं रामोपक्रमम् । रक्षसां परिभवस्तं रक्षःपरिभवम् । ___ हिन्दी--उस राक्षसी ने जनस्थान ( दण्डकारण्य ) में जा कर खर आदि राक्षसों से, उस प्रकार का अपना नाक-कान काटना, सब कह दिया, और “यह भी" कहा कि राम के द्वारा, किया गया यह राक्षसों का पहला तिरस्कार है ॥ ४२ ॥
मुखावयवलूनां तां नैर्ऋता यत्पुरो दधुः ।
रामाभियायिनां तेषां तदेवाभूदमङ्गलम् ॥ ४३ ।। नैर्ऋता राक्षसाः। 'नैर्ऋतो यातुरक्षसी' इत्यमरः। मुखावयवेषु कर्णादिषु लूनां छिन्नां तां पुरो दधुरग्रे चक्रुरिति यत्तदेव रामाभियायिनां राममभिद्रवतां तेषाममङ्गलमभूत् ॥
अन्वयः-नैर्ऋताः मुखावयवलूनां तां पुरः दधुः इति यत्, तद् एव रामाभियायिनां तेषाम् अमंगलम् अभूत्।
व्याख्या--नियता ऋतिः= घृणा यस्याः सा निर्ऋतिः = अलक्ष्मीः। निर्ऋतेः अपत्यानि नैऋताः =राक्षसाः "नैऋतो यातुरक्षसी" इत्यमरः । मुखस्य अवयवा मुखावयवास्तेषु मुखावयवेषु = कर्णादिषु लूना = छिन्ना, इति मुखावयवलूना तां मुखावयवलूनां तां= शूर्पणखां पुरः= अग्रे दधुः =चक्रुः, इति यत् =तत् पुरःकरणम्, एव= निश्चये राम = राघवम् अभियान्ति =सम्मुखं द्रवन्तीति रामाभियायिनस्तेषां रामाभियायिनां =रामं योद्धुमभिद्रवतां तेषां =राक्षसानाम् अमंगलम् = अशुभम् अभूत् = जातम् । अंगभंगस्य पुरः सरणं दर्शनं वा अशुभसूचकं भवतीति सर्वप्रसिद्धमेव ।
समासः-मुखस्य अवयवा मुखावयवाः, तेषु लूना इति मुखावयवलूना तां मुखावयवलूनाम् । रामस्य अभियायिनः इति रामाभियायिनस्तेषां रामाभियायिनाम् । न मंगलमिति अमंगलम् ।
हिन्दी-राक्षसों ने नाक-कान कटी उस शूर्पणखा को जो अपने आगे-आगे किया, यही ( नकटी बूची को आगे करना ही ) राम के ऊपर चढ़ाई करने वाले, राक्षसों का अपशकुन हो गया। किसी अंगभंग व्यक्ति को किसी कार्य में आगे करना या उसका दर्शन होना बहुत अमंगल माना गया है ॥ ४३ ॥
उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः ।
निदधे विजयाशंसां चापे सीतां च लक्ष्मणे ॥ ४४ ॥ उदायुधानुद्यतायुधानापतत आगच्छतो दृप्तांस्तान्खरादीन्प्रेक्ष्य राघवश्चापे विजयस्याशंसामाशां लक्ष्मणे सोतां च निदधे । सोतारक्षणे लक्ष्मणं नियुज्य स्वयं युद्धाय संनद्ध इति भावः ॥