________________
- रघुवंशे ____ हिन्दी-"तुरन्त" सीताजी ने राम को जगाया ( नीन्द से उठाया ) और राम ने काकरूपो इन्द्रपुत्र पर ( काश ) सरकण्डे का बाण छोड़ दिया। तब उस कौवे ने अपनी एक आँख देकर, उस बाण से अपने को छुड़ाया। अर्थात् रामने अपने बाण से कौवे की एक आँख फोड़ दी, तभी से काक एकाक्ष कहलाने लगा ॥ २३ ॥
रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः ।
आशङ्कयोत्सुकसारङ्गां चित्रकूटस्थली जहौ ॥ २४ ॥ . रामस्त्वासन्नदेशत्वाद्धतोः पुनर्भरतागमनमाशङ्कयोत्सुकसारङ्गामुत्कण्ठितहरिणां चित्रकूटस्थली जहौ तत्याज। आसन्नश्चासौ देशश्चेति विग्रहः ॥
अन्वयः-रामः तु आसन्नदेशत्वात् पुनः भरतागमनम् आशंक्य, उत्सुकसारंगां चित्रकूटस्थली जहौ।
व्याख्या-रामः= राघवः तु= च आसन्नः= समीपः चासौ देशः= स्थानमिति आसन्नदेशस्तस्य भावः आसन्नदेशत्वं तस्मात् आसन्नदेशत्वात्, अयोध्यायाः पार्श्वस्थत्वात् इत्यर्थः । पुनः= भूयः भरतस्य आगमनमिति भरतागमनम् आशंक्य = आलक्ष्य सारमंग येषां ते सारंगाः । सारंगच्छन्तीति वा सारंगाः उत्सुकाः= उत्कण्ठिताः सारङ्गाः मृगाः यस्यां सा ताम् उत्सुकसारंगाम् । चित्राणि कूटानि यस्य स चित्रकूटरतस्य स्थली = अकृत्रिमा भूमिः तां चित्रकूटस्थली जहौ= त्यक्तवान् ।
समासः-आसन्नश्चासौ देशः आसन्नदेशस्तस्य भावः आसन्नदेशत्वं तस्मात् आसन्नदेशत्वात् । भरतरय आगमनमिति भरतागमनम् , तत् । उत्सुकाः सारङ्गाः यस्यां सा ताम् उत्सुकसारंगाम् । चित्राणि कूटानि यस्य स तस्य स्थली, तां चित्रकूटस्थलीम् ।
हिन्दी-अयोध्या के पास में ही होने के कारण भरतजी फिर यहाँ आ जायेगें, ऐसी आशंका ( डर ) करके रामने उस रमणीय चित्रकूट नामक पर्वत की भूमि को छोड़ दिया, जिसके मृग रामजी के दर्शनों के लिये उत्कण्ठित ( लालायित ) रहते थे ॥ २४ ॥
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः ।
दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः ॥ २५ ॥ स रामः अतिथिषु साधून्यातिथेयानि । 'पथ्यतिथिवसतिस्वपतेढञ्' इति ढप्रत्ययः । तेष्वृषिकुलेष्वृष्याश्रमेषु। 'कुलं कुल्ये गणे देहे गेहे जनपदेऽन्वये' इति हैमः। वर्षासु भवानि वार्षिकाणि । 'वर्षाग्यष्ठक्' इति ठक्प्रत्ययः। तेष्वृक्षेषु नक्षत्रेषु राशिषु वा भास्कर इव वसन् दक्षिणां दिशं प्रययौ ॥
अन्वयः-सः आतिथेयेषु ऋषिकुलेषु वार्षिकेषु ऋक्षेषु भास्कर इव वसन् दक्षिणां दिशं प्रययौ।