________________
द्वादशः सर्गः अन्वयः-लोकशोषणः सः तयोः मध्ये मैथिली नभोनभस्ययोः अन्तरे वृष्टिम् अवग्रहः इव जहार।
व्याख्या-शोषयतीति शोषणः लोकस्य =संसारस्य शोषणः = शोषकः इति लोकशोषणः सः= विराधनामा राक्षसः तयोः = रामलक्ष्मणयोः मध्ये = अन्तरा मिथिलायां भवा मैथिली तां मैथिली = सीताम् विरहिणो नभ्यति, नभ्नाति, नभते वा नभाः । हिंसार्थकणभधातोः असुन्प्रत्यय औणादिकः । नभसि = अभ्रे साधुः नभस्यः। नभाः = श्रावणः नभस्यः = भाद्रपदः अनयोः द्वन्द्वः नभोनभस्यौ तयोः नभोनभस्ययोः अन्तरे =मध्ये वृष्टिम् = वर्षणम् अवग्रहः= वर्षाविघातकः इव = यथा जहार = अपहृतवान् । यथा श्रावणे भाद्रपदे वा मासे कश्चित् दुष्टग्रहः वृष्टिं मपहरति तथैव विराधेन सीता अपहृता रामलक्ष्मणयोमध्यात् इति भावः।।
समासः-लोकस्य शोषणः लोकशोषणः। नभाश्च नभस्यश्चेति नभोनभस्यौ तयोः नभोनभस्ययोः। ___ हिन्दी-संसार को दुःख देने वाले उस विराध राक्षस ने राम और लक्ष्मण के बीच से सीता जी को उसी प्रकार हर लिया जिस प्रकार श्रावण और भाद्रपद महीनों के बीच से कोई दुष्ट ग्रह वर्षा को ले बीतता है । अर्थात् अवग्राह और अवग्रह नाम के ये दोनों ग्रह श्रावण भाद्रपद के बीच में कभी कभी आकर वर्षा को रोक देते हैं ॥ २९ ॥
तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाशुचिना चेति वसुधायां निचख्नतुः ॥ ३० ॥ ककुत्स्थस्य गोत्रापत्ये पुमांसौ काकुत्स्थौ रामलक्ष्मणौ तं विराधं विनिष्पिष्य हत्वा। अशुचिनाऽपवित्रेण गन्धेन स्थलीमाश्रमभुवं पुरा दूषयति 'दूषयिष्यतीति हेतोः । 'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । वसुधायां निचख्नतुर्भूमौ खनित्वा निक्षिप्तवन्तौ च ॥
अन्वयः-काकुत्स्थौ तं विनिष्पिष्य अशुचिना गन्धेन स्थली पुरा दूषयति इति वसुधायां निचख्नतुः। ___ व्याख्या-कं सुखं कावयति = गृहस्थरय औन्नत्यं प्रापयतीति ककुत् “ककुद्वत् ककुदं श्रेष्ठे वृषाङ्ग राजलक्ष्मणि" इति विश्वः । ककुदि = वृषांगे ( वृषरूपधरस्य देवेन्द्रस्यांगे, इत्यर्थः) तिष्ठतीति ककुत्स्थः। ककुत्स्थस्य = पुरञ्जयनाम्नः अपत्ये काकुत्स्थौ = रामलक्ष्मणौ तं = विराधं विनिष्पिष्य = निहत्य न शुचिः अशुचिस्तेन अशुचिना=अपवित्रण गन्धेन =स्थलीम् =आश्रमभुवं पुरा दूषयति, दूषितमपवित्रं करिष्यति = हेतोः वसुधायां = भूमौ निचख्नतुः पृथिव्यां खनित्वा निक्षिप्तवन्तौ।
समासः-न शुचिः अशुचिस्तेन अशुचिना । अत्र पुरायोगे भविष्यदर्थे लट्लकारः ।
हिन्दी-ककुत्स्थ उपाधि वाले पुरञ्जय नामक राजा के वंश में उत्पन्न राम लक्ष्मण ने विराध को मारकर इसलिये भूमि में गाड़ दिया, कि इसकी अपवित्र गन्ध से आश्रम की मि दूषित हो जायगी ॥ ३० ॥