Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
द्वादशः सर्गः
हिन्दी-पहले बड़े भाई के पास ( विवाह की इच्छा से ) जाने से लक्ष्मण ने भी उसे अस्वीकार कर दिया। तब वह फिर राम जी के पास गई। "इस प्रकार" राम और लक्ष्मण के पास आते जाते उसकी दशा, बारी-बारी से दोनों किनारों से टकराकर बहने वाली नदी के समान हो गई थी। अर्थात् कामान्धा वह मोह में पड़कर दोनों के पास इधर से उधर भटक रही थी॥ ३५ ॥
संरम्भ मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातरितमितां वेलां चन्द्रोदय इवोदधेः ॥ ३६ ॥ मैथिलीहासः क्षणं सौम्यां सौम्याकारां तां राक्षसीम् । निवातेन स्तिमितां निश्चलामुदधेलामम्बुविकृतिम् । अम्बुपूरमित्यर्थः । 'अब्ध्यम्बुविकृतौ वेला' इत्यमरः । चन्द्रोदय इव । संरम्भ संक्षोभं निनाय ॥
अन्वयः-मैथिलीहासः क्षणसौम्यां तां, निवातस्तिमिताम् उदधेः वेलां चन्द्रोदयः इव संरम्भं निनाय। ___ व्याख्या-मैथिल्याः= जानक्याः हासः = हास्यमिति मैथिलीहासः, क्षणं = किंचित्काल सौम्या = सुन्दराकृतिरिति क्षणसौम्या तां क्षणसौम्यां, न तु सर्वदा स्वभावसुन्दरीमित्यर्थः तां = शूर्पणखाम् निवातेन गतानिलेन स्तिमिता = निश्चला, तां निवातस्तिमिताम् उदधेःसागरस्य वेलाम् = तटम् जलविकृतिमित्यर्थः "अब्ध्यम्बुविकृतौ वेला" इत्यमरः। "निवातो गतानिले" इति चामरः । चन्द्रस्य उदयः चन्द्रोदयः इव = यथा संरम्भं - विक्षोभं प्रचण्डतामित्यर्थः निनाय = अनयत् = नीतवान् ।
समासः-मैथिल्याः हासः मैथिलीहासः। क्षणं सौम्या क्षणसौम्या तां क्षणसौम्याम् । निगतः वातो यस्मिन् स निवातः । निवातेन स्तिमिता निवातस्तिमिता तां निवातस्तिमिताम् । चन्द्रस्य उदयः चन्द्रोदयः।
हिन्दी-जैसे वायु के न रहने से शान्त स्थिर समुद्र का तट, चन्द्रमा के निकलने पर उमड़ पड़ता है, उग्र रूप धारण कर लेता है, वैसे ही मिथिलेश पुत्री सीता के हास्य ने, क्षणभर के लिये सुन्दर आकृति वाली, उस घोर राक्षसी शूर्पणखा को क्रोधित कर दिया। अर्थात् सीता को हँसती हुई देखकर बिगड़ पड़ी ॥ ३६॥
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिमवो व्याध्यामित्यवेहि त्वया कृतम् ॥ ३७ ॥ श्लोकद्वयेनान्वयः । अस्योपहासस्य फलं सद्यः संप्रत्येव प्राप्स्यसि। मां पश्य । त्वया का कृतमुपहासरूपं करणं व्याघ्यां विषये मृग्याः कर्ष्याः परिभव इत्यवेहि ॥
अन्वयः-अस्य उपहासस्य फलं सद्यः प्राप्स्यसि, मां पश्य, त्वयाकृतं व्याघ्यां मृग्याः परिभवः इति अवेहि।