Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे यस्य स तेन पुण्यगन्धेन "पुण्यस्त्रिषु मनोशे स्यात् सुकृतधर्मयोः” इति विश्वः । रज्यतेऽङ्गमलंक्रियतेऽनेनेति अंगरागः। अंगस्य = शरीरस्य रागः = विलेपनं वा अंगरागस्तेन अंगरागेण = सिन्दूरादिलेपनद्रव्येण काननं = वनम्, अत्रराश्रममित्यर्थः। षट् पदानि येषां ते षट्पदाः । पुष्पेभ्यः = कुसुमेभ्यः उच्चलिताः = निर्गताः षट्पदाः = भ्रमराः यस्मिन् तत् पुष्पोच्चलितषट्पदम् चकार = कृतवती । आश्रमपुष्पाणि परित्यज्य अंगरागाकृष्टाः भ्रमराः जाताः इत्यर्थः।
समासः-अनसूयया अतिसृष्टस्तेन अनसूयातिसृष्टेन । पुण्यः गन्धः यस्य स तेन पुण्यगन्धेन। अंगस्य रागः अंगरागस्तेन अंगरागेण । पुष्पेभ्यः उच्चलिताः षट्पदाः यस्मिन् तत् पुष्पोच्चलितषट्पदम्।
हिन्दी–महासती अनसूया के दिये हुए तथा पवित्र मनोहर गन्ध वाले अंगराग से सीता जी ने उस वन को ऐसा कर दिया कि उस वन के फूलों से उड़कर भौरें सीता को ओर टूट पड़े। अर्थात् वह अंगराग इतना पवित्र और सुगन्धित था कि भौरें फूलों को छोड़कर उसी पर टूट पड़े। और वन के फूल भौरों से शून्य हो गये ॥ २७ ॥
सध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥२८॥ संध्याभ्रकपिशो विराधो नाम राक्षसः। ग्रहो राहुरिन्दोरिव। तस्य रामस्य मार्गमध्वानमावृत्यावरुध्यातिष्ठत् ॥
अन्वयः-सन्ध्याभ्रकपिशः विराधो नाम राक्षसः ग्रहः इन्दोरिव तस्य मार्गम् आवृत्य अतिष्ठत्।
व्याख्या-अपः =जलानि बिभ्रतीति, अभ्राणि । न भ्रश्यन्ति आपः येभ्यस्तानि अभ्राणि, इति वा। कपिः = वर्णविशेषोऽस्यास्तीति कपिशः =श्यावः, कृष्णपीतवर्ण इत्यर्थः। “श्यावः स्यात्कपिशः” इत्यमरः। सन्ध्यायां = सायंकाले यानि अभ्राणि = मेघास्तद्वत् कपिशः इति सन्ध्याभ्रकपिशः विराधो नाम = विराधनामा राक्षसः =रात्रिचरः ग्रहः राहुः इन्दोः = चन्द्रस्य इव = यथा तस्य रामस्य = रामचन्द्रस्य मार्गम् = पन्थानम् आवृत्य = अवरुध्य अतिष्ठत् = स्थितः ।
समासः-सन्ध्यायाम् अभ्रमिति सन्ध्याभ्रम् , तद्वत् कपिशः इति सन्ध्याभ्रकपिशः ।
हिन्दी-सायंकाल के बादलों के समान भूरे रंग वाला विराधनाम का राक्षस वैसे ही राम के मार्ग को रोक कर खड़ा हो गया, जैसे राहु चन्द्रमा के मार्ग को रोक लेता है अर्थात् चन्द्रग्रहण के समय ॥ २८ ॥
स जहार तयोर्मध्ये मैथिली लोकशोषणः ।
नभोनभस्ययोवृष्टिमवग्रह इवान्तरे ॥ २९ ॥ लोकस्य शोषणः शोषकः स राक्षसस्तयो रामलक्ष्मणयोर्मध्ये मैथिलोम् । नभोनभस्ययोः श्रावणभाद्रपदयोरन्तरे मध्ये वृष्टिमवग्रहो वर्षप्रतिबन्ध इव जहार । 'वृष्टिवर्षं तद्विधातेऽवग्राहावग्रहौ समौ' इत्यमरः॥