Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
हिन्दी-व्यापक विष्णु एक ही है। फिर भी उन तीनों रानियों के गर्भ में निर्मल जल में चन्द्रमा के प्रतिबिम्बों को तरह अनेक प्रकार से विभिन्न स्वरूप वाला होकर ( पृथक् २ ) निवास करने लगा ॥६५।।
अथाऽयमहिषी राज्ञः प्रसूतिसमये सती।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥६६॥ संजी०- प्रथेति । अथ राज्ञो दशरथस्य सती पतिव्रता । अग्रया चासौ महिषो चाग्रयमहिषो कौसल्या। प्रसूतिसमये प्रसूतिकाले। प्रोषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम् । 'अपे क्लेशतमसोः' ( पा. ३।२।५० ) इति डप्रत्ययः । ज्योतिरिव । तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ॥६६।।
अन्वयः-अथ राज्ञः सती अग्र्यमहिषी प्रसूतिसमये श्रोषधिः नक्तं तमोपहं ज्योतिः इव तमोपहं पुत्रं लेभे ।
व्याख्या-प्रथ-अनन्तरम् राज्ञः दशरथस्य सती-साध्वी-प्रतिव्रता अग्रे भवा अग्रया। अग्रया-प्रथमा चासौ महिषी-पट्टाभिषिक्ता इति अग्रयमहिषी मह्यते पूज्यते इति महिषी ( कृताभिषेका) कौसल्या प्रसूतेः-प्रसवस्य समयः= कालः, तस्मिन् प्रसूतिसमये दशमे मासि प्रोषः= प्लोषः दीप्तिर्वा धीयते यस्यां सा प्रोषधिः-वनस्पतिः नक्तम्- रात्रौ तमः- अन्धकारम् अपहन्ति-नाशयतीति तत् तमोपहं ज्योतिः-प्रकाशम् इव यथा तमोपहं = तमोविनाशक म् = अज्ञाननाशकरं पुनाति पूयते वा पुत्रः । पुन्नामनरकात् त्रायते इति पुत्रस्तं पुत्रं- सुतं लेभे =प्राप, पुत्रवती जाता, इत्यर्थः ।
समासः- अग्रया चासौ महिषी अग्रयमहिषी। प्रसूतेः समयः प्रसूतिसमयस्तस्मिन् प्रसूतिसमये । तमः अपहन्तीति तमोपहम् तत् । ( पुत्रपक्षे ) तमः अपहन्तीति तमोपहः, तम् ।
हिन्दी- इसके पश्चात्, राजा दशरथ की पतिव्रता पटरानी कौसल्या ने दसवें मास में अज्ञान का नाश करने वाले पुत्र को उसी प्रकार प्राप्त किया, जिस प्रकार रात्रि में "जलने वाली" वनस्पति अन्धकार को मिटाने वाले प्रकाश को प्राप्त कर लेती है ॥६६॥