Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे शिकादाख्यातुः । 'आख्यातोपयोगे' इत्यपादानात्पञ्चमी। विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । 'खिलमप्रहतं स्थानम्' इति हलायुधः । तौ रामलक्ष्मणौ। स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ । 'कोटिरस्याटनी' इत्यमरः । लीलयैव धनुषी। अधिकृते ज्ये मौव्यौँ ययोस्ते अधिज्ये । 'ज्या मौ-मातृभूमिषु' इति विश्वः । तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ । नयतिर्द्विकर्मकः ॥
अन्वयः--कौशिकात् विदितशापया सुकेतुसुतया खिलीकृते पथि तौ स्थलनिवेशिताटनी लीलया एव धनुषी अधिज्यतां निन्यतुः।
व्याख्या—कुशिकस्यापत्यं पुमान् कौशिकः कौशिकात् = विश्वामित्रात् , ( परमक्रुद्धन अगस्त्यमुनिना, त्वं पुरुषादी घोररूपा विकृतानना। विकृता सती दारुणं रूपं दारुणं कर्म चास्थायात्र वने विचर, इति ताडका अभिशप्ता ) इति आख्यातुरित्यर्थः विदितः = ज्ञातः शापः= आक्रोशः यस्याः सा तया। सुकेतोः सुता= पुत्री तया सुकेतुसुतया =ताडकया, न खिलः अखिलः । अखिलः खिलः संपद्यमानः कृतः खिलीकृतस्तस्मिन् खिलीकृते = अवरुद्ध जनसंचारशून्ये कृते इत्यर्थः, पथि = मागें तौ रामलक्ष्मणौ स्थले =भूमौ निवेशिते = स्थापिते अटनी =धनु:कोटी याभ्यां तौ स्थलनिवेशिताटनी रामलक्ष्मणयोः विशेषणमिदम् । “कोटिरस्याटनी" इत्यमरः । लीलयैव = अनायासेनैव धनुषी = चापे अधिकृते = आरोपिते ज्ये = "मौव्यौं धनुर्गुणौ", इत्यर्थः ययोस्ते अधिज्ये, अधिज्ययोर्भावः अधिज्यता। ताम् अधिज्यतां “मौर्वो ज्या शिञ्जिनी गुणः” इत्यमरः। निन्यतुः = नीतवन्तौ ।
समासः-विदितः शापो यस्याः सा, तया विदितशापया । सुकेतोः सुता तया, सुकेतुसुतया । स्थले निवेशिते अटनी याभ्यां तौ स्थलनिवेशिताटनी।
हिन्दी-विश्वामित्रजी से जान लिया शाप जिसका, ऐसी सुकेतु की कन्या ताड़का से उजाड़े तथा रोके ( अवरुद्ध ) हुवे, मार्ग में जमीन में धनुष के मुड़े शिरों को रखकर उन दोनों राजकुमारों ने अनायास ही धनुष की प्रत्यञ्चा ( डोरी ) को चढ़ा लिया था।
विशेष-अगस्त्यमुनि ने सुकेतु की कन्या को शाप दे दिया था कि तुम अपने इस सुन्दर रूपको त्याग कर विकृत मुखवाली तथा मनुष्यों को खानेवाली घोररूपा राक्षसी हो जाओ । इस शाप को मुनि विश्वामित्र ने मार्ग में ही चलते-चलते श्रीरामलक्ष्मण को बता दिया था । इसलिये उसके स्थान पर पहुँचते ही उन्होंने एक ही हाथ से धनुष के किनारे को जमीन में टेक कर प्रत्यञ्चा डोरी को चढ़ा लिया था, और इससे बड़े जोर की टंकार हुई। इसे सुनकर ताड़का दौड़ कर आ गई थी ॥ १४ ॥
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥ अथ तयोानिनादं गृह्णती जानती। शृण्वतीत्यर्थः । बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा । 'बहुलः कृष्णपक्षे च' इति विश्वः । चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका । निबिडा सान्द्रा बलाकिनी बलाकावती। 'व्रीह्यादिभ्यश्च' इतीनिः। कालिकेव धनावलीव । 'कालिका योगिनीभेदे काष्ण्ये गौर्यां घनावलौ' इति विश्वः । प्रादुरास प्रादुर्बभूव ॥