________________
द्वादशः सर्गः
अन्वयः-अनाथाः प्रकृतयः मातृबन्धुनिवासिनं भरतं स्तम्भिताश्रुभिः मौलैः आनाययामासुः।
व्याख्या-न विद्यते नाथः = स्वामी राजा यासां ताः अनाथाः प्रकृतयः = अमात्याः मंत्रिण इत्यर्थः मातुः = जनन्याः बन्धवः = स्वजनाः, सगोत्रा इति यावत् । तेषु निवसति तच्छीलरतं मातृबन्धुनिवासिनं = मातुलकुले वर्तमानम् विभीति भरतः तं भरतं = कैकेयीतनयं स्तम्भितानि = अवरुद्धानि अणि = नेत्रजलानि यस्तैः स्तम्भिताश्रुभिः, पितृमृत्युगोपनार्थमिति भावः । मूलम् = आदि विदन्ति मूलात् आगता वा मौलास्तैः मौलः = कुलक्रमादागतैः सचिवैः आनाययामासुः = आगमयाञ्चक्रुः ।
समासः-न विद्यमानः अविद्यमानः नाथः यासां ताः अनाथाः। मातुः बन्धवः मातृ. बन्धवस्तेषु निवासी तं मातृबन्धुनिवासिनम्। स्तम्भितानि च तानि अश्रूणि तैः स्तम्भिताश्रुभिः ।
हिन्दी-अनाथ हुए मंत्रियों तथा प्रजाजनों ने नाना के पास ( ननिहाल ) में रहनेवाले भरत जी को, उन, कुलपरम्परा से आ रहे विश्वासी मन्त्रियों को भेजकर बुलवा लिया, जिन्होंने राजा की मृत्यु को छिपाने के लिये अपने आँसू रोक रखे थे ॥ १२ ॥
श्रुत्वा तथाविधं मृत्यु कैकेयीतनयः पितुः ।
मातुन केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ १३ ॥ कैकेयीतनयो भरतः पितुस्तथाविधं स्वमातृमूलं मृत्युं मरणं श्रुत्वा स्वस्या मातुः केवलं मातुरेव पराङ्मुखो न किंतु श्रियोऽपि पराङ्मुख आसोत् ।
अन्वयः-कैकेयीतनयः पितुः तथाविधं मृत्युं श्रुत्वा स्वस्याः मातुः केवलं पराङ्मुखः न “किन्तु" श्रियः अपि पराङ्मुखः आसीत् ।
व्याख्या-तनोति = विस्तारयति कुलमिति तनयः। कैकेय्याः तनयः = पुत्रः इति कैकेयीतनयः =भरतः पितुः = जनकस्य तेन प्रकारेण तथा । तथा विधा = प्रकारो यस्य स तथाविधस्तं तथाविधं = तत्प्रकारं मृत्यु = मरणं श्रुत्वा = आकर्ण्य स्वस्याः मान्यते = पूज्यते इति माता । माति गर्भोऽस्यां वा सा माता तस्याः मातुः=जनन्याः केवलम् = एव पराञ्चति = अनभिमुखं भवति, इति पराक् । पराक् मुखं यस्य स पराङ्मुखः = विमुखः न आसीत् । अपि तु श्रियः = राज्यलक्ष्म्याः अपि पराङ्मुखः आसीत् = अभवत् , मात्रा सह राज्यमपि भरतेन परित्यक्तमित्यर्थः ।
समासः-कैकेय्याः तनयः कैकेयीतनयः। तथा विधा यस्य स तं तथाविधम् । पराक् मुखं यस्य स पराङ्मुखः।
हिन्दी -कैकेयी के पुत्र भरत जी, अपने पिता के इस प्रकार के मरण को ( माता के दुराग्रह के कारण ) सुनकर अपनी माता से हो नहीं अपि तु राज्यलक्ष्मी से भी विमुख हो गये अर्थात् माँ के साथ ही राज्य का भी परित्याग कर दिया ॥ १३ ॥
ससैन्यश्चान्वगादामं दर्शितानाश्रमालयः । तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान् ॥ १४ ॥