________________
७३
द्वादशः सर्गः
स सीतालक्ष्मणसखः सत्याद् गुरुमलोपयन् ।
विवेश दण्डकारण्यं प्रत्येकं च सतां मनः ॥ ९ ॥
स रामो गुरुं पितरं सत्याद्वरदानरूपादलोपयन्नभ्रंशयन् । सीतालक्ष्मणयोः सखेति विग्रहः । ताभ्यां सहितः सन् दण्डकारण्यं विवेश । सतां मनश्च प्रत्येकं विवेश । पितृभक्त्या सर्वे सन्तः संतुष्टा इति भावः ॥
श्रवयः --- सः सत्यात् गुरुम्, अलोपयन् सीतालक्ष्मणसखः दण्डकारण्यं विवेश, सतां मनश्च प्रत्येकं विवेश ।
व्याख्या – सः = रामः सत्सु साधु सत्यं तस्मात् सत्यात् = तथ्यात् गुरुं = पितरं दशरथम् अलोपयन् = अभ्रंशयन् पितुः सत्यं रक्षयन्नित्यर्थः । सोता च लक्ष्मणश्चेति सीतालक्ष्मणौ, तयोः सखा, इति सीतालक्ष्मणसखः सीतया लक्ष्मणेन च सहितः सन् दण्डकस्य = - राजविशेषस्य अरण्यं = वनमिति दण्डकारण्यं दण्डकं च तदरण्यमिति दण्डकारण्यं तत् = जनस्थानम् विवेश अविशत् । सतां = सज्जनानां मनः = चित्तं च प्रत्येकं विवेश ।
समासः–सीता च लक्ष्मणश्चेति सीतालक्ष्मणौ, सीतालक्ष्मणयोः सखा इति सीतालक्ष्मणसखः । दण्डकं च तदरण्यं, तत् दण्डकारण्यम् । न लोपयन् इति अलोपयन् ।
हिन्दी - अपने पिता को सत्य वचन से न हटाते हुए ( अर्थात् पिता के वचन की रक्षा करते हुए ) राम ने सीता और लक्ष्मण के साथ केवल दण्डक वन में ही प्रवेश नहीं किया " अपितु इस सत्य व्यवहार से" हर एक सज्जन के मन में भी प्रवेश कर लिया। सबके मन में राम ने घर कर लिया ।। ९ ।।
राजाऽपि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजम् ।
शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥
तद्वियोगार्तः पुत्रवियोगदुःखितो राजाऽपि स्वकर्मणा मुनिपुत्रवधरूपेण जातः स्वकर्मजस्तं शापं पुत्रशोकजं मरणात्मकं स्मृत्वा शरीरत्यागमात्रेण देहत्यागेनैव शुद्धिलाभं प्रायश्चित्तममन्यत । मृत इत्यर्थः ॥
अन्वयः—तद्वियोगार्तः राजा अपि स्वकर्मजं पापं स्मृत्वा, शरीरत्यागमात्रेण शुद्धिलाभम्
अमन्यत ।
व्याख्या - तस्य = रामस्य, प्रियपुत्रस्य वियोग: = विरहस्तेन आर्तः = पीडितः इति तद्वियोगार्तः । राजा = दशरथः अपि स्वस्य = आत्मनः कर्म = मुनिपुत्रश्रवणकुमारवधरूपं तेन जातः उत्पन्नस्तं स्वकर्मजं शापम् = आक्रोशं स्मृत्वा = स्मरणविषयीकृत्य शरीरस्य = स्वदेहस्य त्यागः = पातः इति शरीरत्यागः शरीरत्याग एव इति शरीरत्यागमात्रं तेन शरीरत्यागमात्रेण = देहपातेनैव शुद्धः = पापात् मुक्तेः लाभः = प्राप्तिस्तं शुद्धिलाभं = प्रायश्चित्तम् अमन्यत = मृत इत्यर्थः ।
= मेने