________________
द्वादशः सर्गः
ज्ञातौ स्वीकृतावित्यर्थः । वरौ " तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः” इति । अभीप्सितावित्यर्थः, इन्द्रेण = देवेन्द्रेण सिक्ता = अभिवृष्टा भूः = पृथिवी बिले = रन्ध्रे, वल्मीकादावित्यर्थः मग्नौ = स्थितौ, इति बिलमग्नौ “बिलं रन्ध्रे गुहायां चे” ति हैमः । उरसा गच्छत इति उरगौ= भुजंगौ इव = यथा उद्ववाम = उज्जगार । कदाचित् पूर्वकाले प्रतिश्रुतौ द्वौ वरौ कैकेयी इदानीं दशरथं याचितवतीत्यर्थः ।
समासः -- तेन संश्रुतौ तत्संश्रुतौ तौ । इन्द्रेण सिक्ता, इति इन्द्रसिक्ता । बिले मग्नौ विलमग्नौ तौ ।
७१
तो
हिन्दी -- अत्यन्त कठोर एवं क्रोधीस्वभाव वाली उस कैकेयी को राजा मनाया, रानी ने पहले किसी समय राजा दशरथ के दिये हुए वे दो वर मांगे, " वे दो वर ऐसे थे " मानो इन्द्र के द्वारा वर्षा से भींगी पृथिवी ने बिल में छिपे दो सांपों को उगल दिया हो ॥ ५ ॥
तयोश्चतुर्दशैकैन रामं प्रावाजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम् ॥ ६ ॥
सातयोर्वरयोर्मध्य एकेन वरेण रामं चतुर्दश समाः संवत्सरान् अत्यन्तसंयोगे द्वितीया । मात्राजयत्मावासयत् । द्वितीयेन वरेण सुतस्य भरतस्य वैधव्यैकफलां स्ववैधव्यमात्रफलाम् । न तूपभोगफलामिति भावः । श्रियमैच्छदियेष ॥
अन्वयः --सा तयोः एकेन रामं चतुर्दश समाः प्राव्राजयत् । द्वितीयेन सुतस्य वैधव्यैकफलां श्रियम् ऐच्छत् ।
व्याख्या - सा = कैकेयी तयोः = पूर्वप्रतिज्ञातवरयोः मध्ये एकेन = वरेण रामं = रामचन्द्रं चत्वारः दश चेति चतुर्दश समाः = वत्सरान् चतुर्दशवर्षपर्यन्तमित्यर्थः । प्राव्राजयत् = प्रावासयत् वनगमनमकारयत् इत्यर्थः । द्वितीयेन = अपरेण, वरेण सुतस्य = भरतस्य, स्वपुत्रस्येति यावत् । विगतः = नष्टः धवः = पतिर्यस्याः सा विधवा । तस्याः भावः कर्म वा वैधव्यम् । वैधव्यं = स्ववैधव्यम् एकं = केवलं फलं = प्रयोजनं यस्याः सा तां वैधव्यैकफलां श्रियं = राज्यलक्ष्मीं नतु समुपभोगफलामिति भावः । ऐच्छत् = अभिलषति स्म ।
समासः - वैधव्यम् एकं फलं यस्याः सा तां वैधव्यैकफलाम् ।
हिन्दी - कैकेयी ने उन दो वरों में दिया और दूसरे से अपने पुत्र भरत के होना ही एक मात्र फल हुआ ।
एक वर से राम को चौदह वर्ष तक बनवास करा लिये वह राज्य माँगा जिसका कि कैकेयी का विधवा
विशेष - श्रीराम बन में गये, और इस दुःख से राजा का स्वर्गवास हो गया । तथा
भरत जी ने राज्य नहीं लिया, मात्र रानियां विधवा हो गईं ॥ ६ ॥
पित्रा दत्तां रुदन् रामः प्राङ्महीं प्रत्यपद्यत । पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत् ॥ ७ ॥