________________
रघुवंशे
. रामः प्राक् पित्रा दत्तां महीं रुदन् प्रत्यपद्यताङ्गीचकार । स्वत्यागदुःखादिति भावः । पश्चाद्वनाय गच्छेत्येवंरूपां तदाशां पित्राशां मुदितोऽग्रहीत् । पित्राशाकरणलाभादिति भावः ॥
अन्वयः-रामः प्राक् पित्रा दत्तां महीं रुदन् प्रत्यपद्यत, पश्चात् वनाय गच्छ इति तदा मुदितः अग्रहीत्।
व्याख्या-रामः =राघवः प्राक् = प्रथमम् पाति रक्षतीति पिता=जनकस्तेन पित्रा "तातस्तु जनकः पिता" इत्यमरः। दत्तां =अर्पितां महीं = पृथिवीं रुदन् =अश्रूणि मुञ्चन् प्रत्यपद्यत = स्वीचकार । पश्चात् =अनन्तरम् वनाय = दण्डकारण्याय गच्छ व्रज इति = एवंरूपां तस्य = पितुः आशा = अनुशासनं तां तदाज्ञां मुदितः= प्रसन्नः सन् अग्रहीत् = स्वीकृतवान् । पितुरनुशासनस्य पालनरूपलाभाद्वनगमने प्रसन्नता ।
समासः-तस्य आज्ञा तदाज्ञा, तां तदाज्ञाम् ।
हिन्दी-रामचन्द्र जी ने पहले पिताजी से दी हुई पृथिवी को ( राजगद्दी को ) आंसू बहाते हुए स्वीकार किया था। और थोड़ी देर बाद वनको चले जाओ, इस प्रकार पिता की आशा को प्रसन्नचित्त होकर स्वीकार किया था ।। ७ ।।
दधतो मङ्गलक्षौमे वसानस्य च वल्कले ।
ददृशुर्विस्मितास्तस्य मुखरागं समं जनः ॥ ८ ॥ मङ्गलक्षौमे दधतो वल्कले वसानस्याच्छादयतश्च तस्य रामस्य सममेकविध मुखरागं मुखवर्ण जना विस्मिता ददृशुः । सुखदुःखयोर विकृत इति भावः ।।
अन्वयः-मंगलक्षौमे दधतः वल्कले च वसानस्य तस्य समं मुखरागं जनाः विस्मिताः ददृशुः। ___ व्याख्या-शौति, झूयते, वा क्षौमम् । क्षुमायाः विकारः क्षौमम् । मंगले = मांगलिके च ते क्षौमे= दुवूले, इति मंगलक्षौमे, कल्याणार्थमुत्सवे परिधातुं योग्ये, कौशेयवस्त्रे इत्यर्थः, दधतः =धारयतः "क्षौमं दुकूलं स्यादि" त्यमरः। वलति = संवृणोतीति बल्कं तत् लातीति वल्कलम् । वल्कले वृक्षत्वग्वस्त्रे च वसानस्य = आच्छादयतः तस्य = रामस्य समं = तुल्यम्, एकविधमित्यर्थः। मुखस्य = आननस्य रागः= वर्णः इति मुखरागस्तं जनाः=अयोध्यास्थनागरिकाः विस्मिताः=आश्चर्यान्विताः सन्तः ददृशुः = अवलोकयामासुः। राज्यतिलकसुखसंवादश्रवणे तथा चतुर्दशवर्ष यावत् वनवासश्रवणसमये रामस्य मुखे प्रसन्नता विवर्णता वा किंचिदपि न दृष्टा तत्रत्यजनैरिति भावः । ___ समासः--मंगले च ते क्षौमे मंगलार्थ वा क्षौमे मंगलक्षौमे, ते । मुखस्य रागः मुखरागस्तं मुखरागम् ।
हिन्दी-राज्याभिषेक के रेशमी वस्त्र पहनते समय और वन जाने के लिये वल्कल ( वृक्ष की छाल के वस्त्र ) को धारण करते हुये राम के मुख के बणे ( मुँह का भाव ) को एक समान, आश्चर्यचकित होकर लोगों ने देखा। अर्थात् सुख या दुःख में राम के मुख पर प्रसन्नता अथवा विकार जरा भी परिलक्षित नहीं होता था ॥ ८॥