Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३५
एकादशः सर्गः बलं यस्य तत् , दृष्टसारम् वीरे = अक्लीवे साधु वीर्यम् , वीरयति, वीर्यते वा वीर्य = प्रभावः = तेज एव शुल्कं = मूल्यं, चापभंगरूपमित्यर्थः । अभिनन्द्य = प्रशस्य राघवाय = श्रीरामचन्द्राय योन्याः जाता योनिजा। न योनिजा, इति अयोनिजा, तामयोनिजां = देवयजनसम्भवां तनोति कुलं या सा तनया तां तनयां = सुतां सीतामित्यर्थः रूपमस्या अस्तीति रूपिणी तां रूपिणी = रूपवतीं श्रियं = लक्ष्मीम् इव = यथा साक्षालक्ष्मीमिवेत्यर्थः न्यवेदयत् = वाण्यार्पितवान् ।
समास.-रुद्रस्य कार्मुकमिति रुद्रकार्मुकं तस्मिन् रुद्रकार्मुके । दृष्टः सारः यस्य तत् दृष्टसारम् । वीर्यमेव शुल्कमिति तत् वीर्यशुल्कम् । न योनिजा इति अयोनिजा तामयोनिजाम्। ___ हिन्दी-धनुष के टूटने पर राजा जनक ने शिवजी के धनुष ( तोड़ने ) में देख लिये गये पराक्रम रूपी मूल्य की प्रशंसा करके ( अर्थात् रामके पराक्रम की प्रशंसा करके ) पृथिवी से उत्पन्न हुई अपनी पुत्री सीताजी को रामचन्द्र के लिये वैसे ही सौंप दिया, मानो साक्षात् लक्ष्मी ही दे दी हो।
विशेष-राजा जनक ने सन्तानप्राप्ति की अभिलाषा से एक यज्ञ का आरम्भ किया था। उस यज्ञ की तैयारी के समय राजा को हल चलाना पड़ा था। और उसी समय हल चलाते हुए सीता खूद में से प्राप्त हुई थी। हल की फाल से खुदे बने खूद ( गहरी रेखा) से प्राप्त होने के कारण उसका सीता नाम पड़ा था । इसी कारण सीता जी "अयोनिजा" पृथिवीपुत्री देवयजनसंभवा कहाती है ।। ४७ ।। उक्तमेवार्थ सोपस्कारमाह
मैथिलः सपदि सत्यसङ्गरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान् ॥ ४८ ॥ सत्यसङ्गरः सत्यप्रतिशः। 'अथ प्रतिशाजिसंविदापत्सु सङ्गरः' इत्यमरः। मैथिलो राघबायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ। अग्निः साक्षी यस्य सोऽग्निसाक्षिकः । 'शेषाद्विभाषा' इति कप्प्रयः । स इव । सपद्यतिसृष्टवान्दत्तवान् ॥
अन्वयः-सत्यसंगर: मैथिलः राववाय अयोनिजां तनयां द्युतिमतः तपोनिधेः सन्निधौ अग्निसाक्षिकः इव सपदि अतिसृष्टवान् ।
व्याख्या-सत्यः = तथ्यः संगरः = प्रतिज्ञा यस्य स सत्यसंगरः । “सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति" इति मेदिनी। संगरणं संगरः, संगीर्यते वा संगरः। मैथिलः = मिथिलानरेशः राघवाय = रामाय अयोनिजां = देवयजनसम्भवां सोतां तनयां = पुत्रीं द्योततेऽनया इति द्यतिः = शोभा अस्यास्तीति द्युतिमान् तस्य द्युतिमतः = तेजस्विनः इत्यर्थः “शोभा कान्तितिश्छविः” इत्यमरः। तपसां निधिस्तपोनिधिरतस्य तपोनिधेः = विश्वामित्रस्य संनिधानं संनिधिस्तस्मिन् संनिधौ = समीपे-अंगति =ऊर्ध्वं गच्छतीति अग्निः = वह्निः साक्षी = साक्षात् द्रष्टा यस्य सो अग्निसाक्षिकः इत्र = यथा सम्पद्यते अस्मिन् सपदि = तत्क्षणे अतिसृष्टवान् = दत्तवान् । यथाहि लोके