Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकादशः सर्गः
४५ अन्वयः-श्येनपक्षपरिधूसरालकाः सान्ध्यमेवरुधिरावाससः रजस्वलाः दिशः रजस्वलाः अङ्गना इत्र अवलोकनक्षमाः नो बभूवुः । ___व्याख्या-श्येनस्य = शशादनस्य पत्रिण इत्यर्थः पक्षाः= गरुतः इति श्येनपक्षाः । "शशादनः पत्री श्येनः” इत्यमरः परितः धूनोति चेतः, इति परिधूसरः, परितः धूसं रातीति परिधूसरः, "ईषत्पाण्डुस्तु धूसरः” इत्यमरः। श्येनपक्षा एव परिधूसराः= धूसरवर्णाः अलकाः= चूर्णकुन्तलाः यासां ताः श्येनपक्षपरिधूसरालकाः “अलकाश्चूर्णकुन्तलाः' इत्यमरः। सन्ध्यायां भवाः सान्ध्याः, सांध्याः सायंकालिकाश्च ते मेघाः= वारिवाहाः, इति सान्ध्यमेवाः। सांध्यमेघा एव रुधिरेण = शोणितेन आर्द्राणि = क्लिन्नानि वासांसि = वस्त्राणि यासां ताः सान्ध्यमेवरुधिरावाससः। रजः=धूलिरस्ति, आसां ताः रजस्वलाः दिशः = काष्ठाः। रजः= स्त्रीपुष्पमस्ति यासां ताः रजस्वलाः= ऋतुमत्यः सुन्दराणि अंगानि सन्ति यासां ताः अंगनाः = स्त्रियः इव - यथा अवलोकने = दर्शने क्षमाः = योग्याः नो= नहि बभूवुः = जाताः। यथा शास्त्रोक्तदोषात् रजस्वलाः स्त्रियः न दर्शनयोग्याः एवमेव वात्याधूलिवर्षणात् दिशः न दर्शनक्षमा इति भावः । 'स्याद्रजः पुष्पमार्तवमि'त्यमरः।
समासः-श्येनस्य पक्षा एव परिधूसरा अलका यासां ताः श्येनपक्ष परिधूसरालकाः। सांध्याः मेघा एव रुधिरेण आर्द्राणि वासांसि यासां ताः सांध्यमेवरुधिरावाससः। अवलोकनेक्षमाः अवलोकनक्षमाः।
हिन्दी-बाज पक्षी के पंख रूपी मटमैले धुंवराले केश वाली, और सायंकाल के मेवरूपी खून से भींगे वस्त्रवाली धूली से भरी चारों दिशाएँ उन स्त्रियों के समान देखने योग्य नहीं रहीं, जो कि रूखे तथा मटमैले केश वाली, और रक्त से लाल रंग के कपड़ों वाली मासिकधर्म के समय देखने योग्य नहीं रहती हैं ।
विशेष-आंधी चलने से धूली दिशाओं में भर गई थीं और उसमें बाज पक्षियों के पंख उड़ रहे थे, तथा कुछ लाल मेघ भी आकाश में भर गये थे, इसलिये सब दिशाएँ देखने लायक न रह गई थीं। और मासिकधर्म के समय स्त्रियाँ शृंगार न करने से रूखे बालों तथा रक्त से लाल वस्त्रवाली हो जाती हैं ऐसी स्थिति में स्त्रियों को देखना भी शास्त्रवर्जित है ॥ ६० ॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवः ॥ ६ ॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः, 'उपान्वध्यावसः' इति कर्मत्वम् । तां दिशं श्रिताः शिवा गोमायवः । 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकर ववासिरे रुरुवुः । 'वास शब्दे' इति धातोलिट् । 'तिरश्चां वासितं रुतम्' इत्यमरः ॥
अन्वयः-भास्करः च यां दिशम् अध्युवास तां श्रिताः शिवाः क्षत्रशोणितपितृक्रियोचितं भार्गवं चोदयन्त्य इव प्रतिभयं ववासिरे ।