________________
एकादशः सर्गः तत्र = मिथिलायां निवेश्य = विवाह्य “निवेशः सैन्यविन्यासे न्यासे रंगविवाहयोः” इति हैमः । त्रिषु अध्वसु = त्रिसंख्यकप्रयाणेषु सत्सु त्रिविश्रामस्थलेषु व्यतीतेषु सत्स्वित्यर्थः विसृष्टः = प्रेषितः परावर्तित इत्यर्थः मैथिलः = जनकः येन स विसृष्टमैथिलः सन् । स्वां = स्त्रीयां पुरीम् = अयोध्याम् न्यवर्तत = प्रत्यावर्तत । अयोध्याम्प्रति चचालेत्यर्थः ।
समासः-आत्ता रतियेन सः आत्तरतिः । आत्मनः सम्भवास्तान् आत्मसम्भवान्। विसृष्टः मैथिलः येन स विसृष्टमैथिलः ।
हिन्दी-इस प्रकार प्रेम तथा सन्तोष पूर्ण राजा दशरथ जी, अपने चारों पुत्रों को जनकपुर में विवाहकर, और तीन पडावों के बीत जाने पर राजा जनक को विदा करके अपनी नगरी अयोध्या को लौट चले । अर्थात् जनक जी अपने प्रिय समधीको बिदा करने के समय तीन रात तक मार्ग में साथ-साथ आये थे, तब दशरथजी ने उन्हे तीसरे पडाव से लौटा दिया, और स्वयं अयोध्या की ओर चल दिये ॥ ५७ ॥
तस्य जातु मरुतः प्रतीपगा वर्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुभृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥ ५८ ॥ जातु कदाचिद्वमसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वजतरुप्रमाथिनः प्रतीपगाः प्रतिकृलगामिनो मरुतः। उत्तटा नदीरयाः स्थलीमकृत्रिमभूमिमिव । 'जानपदकुण्ड–'इत्यादिना ङीप् । तरय वरूथिनी सेनां भृशतया भृशं चिक्लिशुः क्लिश्यन्ति स्म ॥
अन्वयः-जातु वर्त्मसु ध्वजतरुप्रमाथिनः प्रतीपगाः मरुतः, उत्तटाः नदीरयाः स्थलीम् इव, तरय वरूथिनीं भृशतया चिक्लिशुः । ___ व्याख्या-जातु = कस्मिंश्चित्काल वर्मसु = मागेपु ध्वजाः= पताका एव तरवः = वृक्षारतान् प्रमथ्नन्ति = विलोडयन्ति ये ते ध्वजतरुप्रमाथिनः = मार्गस्थवृक्षभञ्जका इत्यर्थः। प्रतीपं = प्रतिकूलं गच्छन्तीति प्रतीपगाः = सम्मुखागामिनः म्रियन्ते एभिर्विना प्रवृद्धैर्वा ते मरुतः= वायवः उद्धताः तटाः यैस्ते उत्तटाः । उत्क्रान्ताः तटमिति वा उत्तटाः= तीरमतिक्रान्ताः नदीनां = सरितां रयाः- वेगाः स्थलीम् = अकृत्रिमभूमिम् इव = यथा र.रय = राशो दशरथरय । वियते = आच्छाद्यते रथोऽनेनेति वस्थः । “वरूथो रथगुप्तौ रयात्" इति मेदिनी। वरूथाः सन्त्यस्यां सा तां वरूथिनीं = सेनां भृशतथा = भृशम् = अत्यन्तं चिक्लिशुः= पीडयन्ति स्म ।
समासः-ध्वजा एव तरवः, इति ध्वजतरवः, ध्वजतरूणां प्रमाथिनः, तान् ध्वजतरुप्रमाथिनः । तटानि उत्क्रान्ताः उत्तटाः ।
हिन्दी-किसी एक दिन मार्ग में पताका रूपी वृक्षों को ( फाड़ने तोड़ने वाले ) झकझोरने वाले तथा विपरीत ( उलटा ) चलने वाले वायुओं ने राजा दशरथ की सेना को उसी प्रकार अत्यन्त व्याकुल कर दिया, जैसे कि तट ( किनारे ) को तोड़कर ऊपर बहने वाली नदी की धारा आसपास की जमीन को डुबो देती है, छिन्न-भिन्न कर देती है ॥ ५८ ॥