Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकादशः सर्गः दण्डेन = लगुडेन घट्टनं चालनमिति दण्डवट्टनं तस्मात् दण्डवट्टनात् दण्डेन ताडनादित्यर्थः । इव = यथा तव =भवतः रामचन्द्रस्य विक्रमस्य = पराक्रमस्य श्रवः = आकर्णनं तस्मात् विक्रमश्रवात् रोषितोऽस्मि कोपं प्रापितोऽस्मि । एकविंशतिवारं क्षत्रियजातिं विनाश्य पितृवधकरजो में क्रोधः शान्तः किन्त्विदानीं तव पराक्रमं श्रत्वाहं पुनः रोषं गत इत्यर्थः ।
समासः–क्षत्राणां जातमिति क्षत्रजातम् । अपकारेण वैरि अपकारवैरि। सुप्तश्चासौ सर्प इति सुप्तसर्पः । दण्डेन घट्टनं दण्डवदृनम् , तस्मात् । विक्रमस्य श्रवः विक्रमश्रवः तस्मात् विक्रमश्रवात् ।
हिन्दीमेरे पिता का वध करने के कारण क्षत्रिय जाति मेरी शत्रु है । उस क्षत्रिय जाति को इक्कीस बार मार कर मैं शान्त हो गया था, किन्तु जैसे डण्डे से मारने (छेड़ने ) पर सोता हुआ साँप फुफकार उठता है वैसी ही तुम्हारा पराक्रम सुनने से मैं पुनः क्रोधित हो गया हूँ ॥ ७१ ॥
मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वमक्षणोः ।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥ ७२ ॥ अन्यैः पार्थिवैः । अनमितपूर्व पूर्वमनमितम् । सुप्सुपेति समासः। अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान् । किलेति वार्तायाम् । 'वातसंभाव्ययोः किल' इत्यमरः। तद्धनुर्भग्नं निशम्याकार्य भवता आत्मनो मम वीमेव शृङ्ग भग्नमित्र समर्थये मन्ये ॥ __ अन्वयः-अन्यपार्थिवैः अनमितपूर्व मैथिलस्य धनुः त्वम् अक्षणोः किल, तत् निशम्य भवता आत्मनः वीर्यशृंगं भग्नम् इव समर्थये।
व्याख्या अन्ये = इतरे च ते पार्थिवाः =राजानस्तैः अन्यपार्थिवैः। न नमितमिति अनमितं पूर्व = प्रथमम् अनमितम् = नाभुग्नम् मैथिलस्य = जनकस्य धनुः = चापम् त्वं =रामः अक्षणोः = अभञ्जः =त्रोटितवानित्यर्थः किल = इति वार्तायाम् “वार्तासंभाव्ययोः किल" इट.मरः । तत् = भग्नं चापं निशम्य = श्रुत्वा भवता = त्वया राघवेन आत्मनः = स्वस्य ममेत्यर्थः । वीर्यमेव = तेज एव शृंगं = शिखरं = प्रभुत्वमित्यर्थः। इति वीर्यशृंगं भग्नं = त्रुटितं, नष्टम् इव = यथा समर्थये = मन्ये अहं परशुराम इति शेषः। 'वीर्य तेजःप्रभावयोः । शुके शक्तौ चे' ति हैमः।
समासः-अन्ये च ते पार्थिवास्तैः अन्यपार्थिवैः । न नमितमिति अनमितम्, पूर्वम् अनमितमिति अनभितपूर्वम् । वीर्यमेव शृंगमिति वीर्यशृंगं तत् वीर्यशृंगम् ।
हिन्दी-दूसरे राजा जिस धनुष को पहले कभी झुका भी न सके थे, राजा जनक के उस धनुष को तुमने तोड़ दिया। यह सुनकर मैं यह मानता हूँ कि तुमने मेरा पराक्रम रूपी सींग ही तोड़ दिया। अर्थात् आज तक मैं सबसे बढ़कर बलशाली माना जाता था, यह मेरा यश तुमने इस धनुष को तोड़कर नष्ट कर दिया ॥ ७२ ॥
अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मामगात् । व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ७३ ॥