________________
रघुवंशे
हिन्दी - अपने आचार-विचार के पक्के, वरुण और इन्द्र के समान उन प्रतापी दोनों राजाओं ने मिलकर, अपने - अपने वैभव के अनुरूप कन्याओं तथा पुत्रों का विवाह संस्कार विस्तार पूर्वक ( बड़े ठाट-बाट से ) कर दिया ॥ ५३ ॥
४०
पार्थिवीमुदवद्वद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवर वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ५४ ॥
उद्वहतीत्युद्वहः पचाद्यच् । रघूणामुद्वहो रामः । पृथीव्या अपत्यं स्त्री पार्थिवी । ‘तस्यापत्यम्' इत्यणि 'टिढा -' इति ङीप् । तां सीतामुदवहत्परिणीतवान् । अथ लक्ष्मणरतस्याः सीताया अनुजां जनकस्यौरसीमूर्मिलामुदवहत् । यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतशत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चोदताम् । नात्र व्युत्क्रमविवाह दोषो भिन्नोदरत्वात् । तदुक्तम् — 'पितृव्यपुत्रे सापत्ये परनारीसुतेषु च । विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम् ॥' इति ॥
अन्वयः - रघूद्वहः पार्थिवीम् उदवहत्, अथ लक्ष्मणः तदनुजाम् ऊर्मिलाम् उदवहत् यौ वरौजसौ तयोः अवरजौ तौ सुमध्यमे कुशध्वजसुते च उदवहताम् ।
व्याख्या - उद्वहतीति उद्वहः । रघूणाम् उद्वहः = श्रीरामचन्द्रः पृथिव्याः अपत्यं स्त्री पार्थिवी तां पार्थिवीं = पृथिवीपुत्रीं सीताम् उदवहत् = परिणीतवान् । अथ = अनन्तरम् लक्ष्मणः= सौमित्रिः तस्याः = सीतायाः अनुजा = कनिष्ठा तां तदनुजां = जनकस्यौरसी पुत्रीमित्यर्थः ऊर्मिलाम् = एतन्नाम्नीम् उदवहत् = परिणीतवान् । यौ = प्रसिद्धौ वरं = श्रेष्ठम् ओजः = बलं ययोरतौ वरौ - जसौ तयोः=रामलक्ष्मणयोः अवरस्मिन् काले जातौ = उत्पन्नौ अवरजौ, भरतशत्रुघ्नौ तौ सुमध्यमे = मनोरमे कुशध्वजस्य = जनकावरजस्य सुते = पुत्र्यौ, इति कुशध्वजसुते, माण्डवीं सुकीतिञ्च उदवहताम् = परिणीतवन्तौ ।
समासः - रघूणाम् उद्वह इति रघूद्वहः । तस्याः अनुजा तां तदनुजाम् । अवरस्मिन् जातौ, अवरजौ । वरम् ओजः ययोरतौ वरौजसौ ।
हिन्दी - रघुकुल श्रेष्ठ रामने पृथिवी से उत्पन्न, जनकपुत्री सीता से विवाह किया । और इसके पश्चात् लक्ष्मण ने सीता की छोटी बहन ( जनक की औरसी कन्या ) ऊर्मिला से, तथा जो अच्छे बलशाली, उनके छोटे भाई भरत शत्रुघ्न थे, उनका विवाह मनोरम ( सुन्दरी ) जनकजी के छोटे भाई कु. शध्वज की कन्या माण्डवी तथा सुकीर्ति से हुआ ।
विशेष- - भरत जी लक्ष्मण से बड़े थे अतः भरतजी का विवाह पहले न करके लक्ष्मणजी
के बाद में किया गया है । अत: इसमें परिवेत्ता दोष होने के कह सकते क्योंकि यहाँ कन्या भिन्न-भिन्न माता से जन्मी थी, माण्डवी कुशध्वज की पुत्री थी इसलिये परिवेत्ता दोष नहीं है ॥ ५४ ॥
कारण अनुचित है ऐसा नहीं ऊर्मिला जनकजी की पुत्री और
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधू परिग्रहाः । सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥ ५५ ॥