________________
एकादशः सर्गः
हिन्दी-अपनी एक बाँहरूपी लाठी को ऊपर उठाए हुई और कमर में मनुष्यों की अंतड़ियों ( आँतों) की तगड़ी लटकाए हुई, "तथा अपनी ओर" आती हुई ताड़का को देख कर रामने, स्त्री के मारने में घृणा व दया को बाण के साथ ही छोड़ दिया। अर्थात् घृणा व दया को त्यागकर एक बाण ताड़का के ऊपर छोड़ दिया।
विशेष-स्त्री को मारना धर्मशास्त्र के विरुद्ध है। तथा मनुष्य स्त्री को मारने में घृणा स्त्री के प्रति दया भाव रखता है फिर भी श्रीराम ने ताड़का को मार दिया, घृणा दया नहीं की, क्योंकि ताड़का आततायी थी, और आततायी को मारना शास्त्र संमत है। मनु का वचन है कि आततायी को सामने आते ही मार डालना चाहिये, इसमें कोई दोष नहीं है। अतः रामने भी घृणा व दया छोड़ कर ताड़का को मारा था । 'आततायिनमायान्तं हन्यादेवाविचारयन्' इति स्मृतिः ।। १७ ॥
यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥ स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्धं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः। अन्तकस्य यमस्य द्वारतामगमत् । इयं प्रथमा रक्षोमृतिरिति भावः ।।
अन्वयः-सः रामसायकः शिलाघने ताडकोरसि यत् विवरं चकार, तत् रक्षसाम् अप्रविष्टविषयस्य अन्तकस्य द्वारताम् अगमत् ।
व्याख्या–सः = पूर्वोक्तः स्यति = अन्तं करोतीति सायकः । रामस्य सायकः =शरः, इति रामसायकः “शरे खड्गे च सायकः” इत्यमरः। शिलावत् = पाषाणवत् घनं सान्द्रं, दृढमिति यावत् , इति शिलाघनं तस्मिन् शिलावने । “घनः सान्द्र दृढे” इति हैमः । ताडकाया उरः = वक्षस्थलं, तस्मिन् ताडकोरसि यत् विवरं = छिद्रं बिलमित्यर्थः चकार = कृतवान् । तद् = विवरं रक्षन्त्येभ्यो रक्षांसि तेषां रक्षसां =राक्षसानाम् न प्रविष्टः विषयः=देशः येन सोऽप्रविष्टविषयस्तस्य अप्रविष्टविषयस्य, राक्षसदेशेऽप्रविष्टस्येत्यर्थः, अन्तं करोति, अन्तयतीति अन्तकस्तस्य अन्तकस्य = यमराजस्य द्वारस्य भावः द्वारता तां द्वारतां = प्रतिहारताम् अगमत् = अव्रजत् । इदं प्रथमं राक्षसमरणमिति भावः ।
समासः-रामस्य सायकः, रामसायकः । शि लावत् घनमिति शिलाघनं तस्मिन् शिलाधने। ताडकायाः उरः, तस्मिन् ताडकोरसि । न प्रविष्टः अप्रविष्टः, अप्रविष्टः विषयो येन स तस्य अप्रविष्टविषयस्य, अत्र सापेक्षत्वेऽपि गमकत्वात् समासः।।
हिन्दी राम के उस बाण ने पत्थर की चट्टान के सदृश कठोर ताड़का की छाती में जो बिल ( छेद ) किया, वही छेद, राक्षसों के देश में प्रवेश न पाने वाले यमराज के लिये द्वार बन गया। अर्थात् अभी तक यमराज राक्षसों को नहीं मार सकते थे, अब रामचन्द्रजी ने मार्ग खोल दिया। और यह प्रथम राक्षस मृत्यु है ॥ १८ ॥