Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
२८
रघुवंशे
कालवित् = समयज्ञ : कुशिकरय =राज्ञः वंशः = कुलं तस्य वर्धनः = वर्धयिता, कुशिकवंशवर्धनः सः = मुनिविश्वामित्रः, रामम् , इषूणां = बाणानाम् असनमिति इष्वसनं = धनुः तस्य दर्शनम् = अवलोकनम् तत्र उत्सुकः = उत्कण्ठितरतम् , इष्वसनदर्शनोत्सुकं मिथिलायाः अयमिति मैथिलस्तरमै मैथिलाय = जनकाय कथयाम्बभूव = कथितवान् ।
समासः-क्रियायाः विधिस्तस्मिन् क्रियाविधौ । कुशिकस्य वंशस्तस्य वर्धनः, कुशिकवंशवर्धनः। इषूणाम् असनमिति, इष्वसनं तस्य दर्शनमिति इष्वसनदर्शनं तस्मिन् उत्सुकस्तम् , इष्वसनदर्शनोत्सुकम् ।
हिन्दी-यूप ( यूंटा ) वाले यश के अनुष्ठान के पूर्ण हो जाने पर ( यज्ञ के समाप्त होने पर ) अवसर के जानने वाले तथा कुशिक राजा के वंश की वृद्धि करने वाले मुनि विश्वामित्र ने राजा जनक से कहा कि रामचन्द्र धनुष को देखने लिये उत्सुक हैं।
विशेष—यूप यज्ञ की स्थूणा चूँटे का नाम है। यह बाँस या खदिर ( खैर ) की लकड़ी का बनाया जाता है। और बलि दिया जाने वाला पशु, मेध के समय इसी यूप से बाँधा जाता है ।। ३७ ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥ ३८ ॥ पार्थिवो जनकः। प्रथितवंशे जन्म यस्य तथोक्तस्य। एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य। स्वं स्वकीयं दुरानममानमयितुमशक्यम् । नमेय॑न्तात्खल् । धनुर्विचिन्त्य च दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । 'शुल्कं घट्टादिदेये स्याज्जामतुर्वन्धकेऽपि च' इति विश्वः। तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या । 'संस्था स्थितौ शरे नाशे' इति विश्वः । पीडितो बाधितः शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥
अन्वयः-पार्थिवः प्रथितवंशजन्मनः शिशोः तस्य ललितं वपुः वीक्ष्य, स्वं दुरानमं धनुश्च वीक्ष्य दुहितृशुल्कसंस्थया पीडितः ।
व्याख्या-पृथिव्याः ईश्वरः पार्थिवः= राजा जनकः प्रथितः = विख्यातः वंशः = कुलमिति प्रथितवंशः । प्रथितवंशे = प्रसिद्धकुले जन्म = उत्पत्तिः यस्य स तस्य प्रथितवंशजन्मनः शिशोः =शावकरय बालकस्येत्यर्थः । तस्य = रामस्य ललितं = सुकोमलं वपुः= शरीरं वीक्ष्य = दृष्ट्वा दुरानमं =नमयितुमशक्यम् स्वं = स्वकीयं धनुः= चापं च वीक्ष्य दुहितुः = कन्यायाः शुल्कं = मूल्यं, जामातृदेयं धनुभंगरूपमित्यर्थः, इति दुहितृशुल्कं तस्य संस्था = स्थितिस्तया दुहितृशुल्कसंस्थया । “शुल्कं घट्टा दिदेये स्याज्जामातुर्बन्धकेऽपि च" इति विश्वः । “संस्था स्थिती शरे नाशे' इति विश्वः । पीडितः = दुःखितः अभूदिति शेषः।
समासः-प्रथिते वंशे जन्म यस्य तस्य प्रथितवंशजन्मनः । दुःखेन आनममिति दुरानमम् , तत् । दुहितुः शुल्कं, तस्य संस्था, तया दुहितृशुल्कसंस्थया ।
हिन्दी-राजा जनक ने एक ओर तो प्रसिद्ध सूर्य वंश में जन्म लेने वाले बालक श्रीराम के मनोहर कोमल शरीर को देखा, और दूसरी ओर बड़े-बड़े शूरवीरों से भी न नमने