________________
रघुवंशे
न हो जाय । इन्द्र को भी शाप दिया था तुम्हारे सारे शरीर में भग हो जायें। इसी अहल्या का भगवान ने उद्धार किया था, और वह पुनः अपने पूर्व रूप में आ गई थी। और उसका पति से मिलन हुआ । अहल्या उन प्रातः स्मरणीय पाँच महासतियों में एक है जिनका प्रातः नाम लेने से महापातक नष्ट हो जाते हैं ।। ३४ ॥
राघवान्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३५॥ राववाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनि उनको जनेश्वरो निशम्य। अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम् । मूर्तिमन्तमित्यर्थः। वाहिताग्न्यादित्वात्साधुः। धर्ममिव। सपर्ययाभ्यगात्प्रत्युद्गतवान् ॥
अन्वयः-जनेश्वरः जनकः राववान्वितम् उपस्थितं तं मुनिं निशम्य, अर्थकामसहितं देहबद्धं धर्मम् इव सपर्यया अभ्यगात् ।
व्याख्या-जनानां = लोकानाम् ईश्वरः = स्वामी, जनेश्वरः =राजा जनयतीति जनकः = विदेहः "जनकः पितृभूपयोः” इति हैमः । राघवश्च राघवश्चेति राघवौ । राघवाभ्यां =रामलक्ष्मणाभ्याम् अन्वितः =युक्तः, तं राववान्वितं तं मुनि = विश्वामित्रम् , उपस्थितं =समागतं निशम्य = श्रुत्वा, अर्थश्च कामश्चेति, अर्थकामौ =द्वौ पुरुषार्थौ । ताभ्यां सहितं = युक्तमिति, अर्थकामसहितं बद्धः देहो येन स देहबद्धः, तं देहबद्धं = शरीरधारिणं धर्म = तृतीयं पुरुषार्थम् इव = यथा समर्पणं सपर्या, तया सपर्यया = पूजया अभ्यगात् = अभिजगाम प्रत्युद्गगतवानित्यर्थः ।
समासः-राघवश्च राघवश्चेति राववौ । एकशेषः । ताभ्याम् अन्वितस्तं राघवान्वितम् । जनानामीश्वरः जनेश्वरः। अर्थश्च कामश्चेति, अर्थकामौ। अर्थकामाभ्यां सहितस्तम् अर्थकामसहितम् । बद्धः देहो येन देहबद्धस्तं देहबद्धम् ।
हिन्दी-राजा जनक, रामलक्ष्मण के साथ आये हुवे मुनि विश्वामित्र को सुनकर, पूजा सामग्री के साथ ( सामग्री लेकर ) उनकी अगवानी करने के लिये गये। “उस समय जनक जी को ऐसा प्रतीत हो रहा था", कि-मानो अर्थ और काम ( दो पुरुषार्थों ) के साथ साक्षात् मूर्तिमान् धर्म आ रहा हो।
विशेष-अर्थ, काम, धर्म, ये तीन पुरुषार्थ हैं मोक्ष चौथा अन्तिम, परमपुरुषार्थ है। इन चारों में से जिसके पास एक भी नहीं है उसका संसार में आना व्यर्थ है। ऐसा शास्त्रकारों का कथन है ।। ३५॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्षमपातमपि वञ्चनां मनः ॥ ३६ ॥ दिवः सुरवर्मन आकाशात् । 'द्यौः स्वर्गसुरवर्त्मनोः' इति विश्वः। गां भुवं गतौ 'स्वगेंघुपशुवाग्वज्रदिङ्नेवघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः' इत्यमरः । पुनर्वसू इव तन्नामकन