________________
एकादशः सर्गः हिन्दी-विश्वामित्र मुनि से अस्त्र प्राप्त कर लेने पर, मुनि के बताए हुवे तथा पवित्र, वामन भगवान् के आश्रम में पहुँचकर श्रीरामचन्द्र अपने पूर्वजन्म की लीलाओं का "ठीकठीक" स्मरण न होते हुवे भी उत्कण्ठित, उदास से हो गये।
विशेष-वामनावतार और रामवतार दोनों विष्णु के ही अवतार हैं। अतः दोनों के एक ही होने के कारण पूर्वजन्म की स्मृति होनी चाहिये थी, किन्तु श्रीराम को अपने पूर्वावतार का ज्ञान न होने से जन्मान्तर का संस्कार दुर्बल था, इसलिये पूर्व चेष्टाओं का अच्छी प्रकार स्मरण न होते हुवे भी कुछ आभास हो गया था, अतः मनमें उदासी सी छा गयी थी ॥ २२ ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पिताहणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥ ततो मुनिः। शिष्यवर्गेण परिकल्पिता सज्जितार्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम् । बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम् । दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत् । आत्मनस्तपोवनमाससाद । एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥
अन्वयः-ततः मुनिः शिष्यवर्गपरिकल्पिताहणम् बद्धपल्लवपुटाअलिद्रुमं दर्शनोन्मुखमृगम् आत्मनः तपोवनम् आससाद ।
व्याख्या-ततः = अनन्तरम् मन्ता = वेदशास्त्रतत्वावगन्ता, इति मुनिः = कौशिकः शिष्यन्ते इति शिष्याः। शिष्याणां = छात्राणां वर्गः =समूहः तेन परिकल्पिता =सज्जीकृता अर्हणा = पूजासामग्री यस्मिन् तत् शिष्यवर्गपरिकल्पिताहणम् । “छात्रान्तेवासिनौ शिष्ये" इत्यमरः । पल्लवानां = किसलयानां पुटाः =सम्पुटाः, इति पल्लवपुटाः। बद्धाः संश्लिष्टाः पल्लवपुटाः एव अञ्जलयः = हस्तसंपुटाः यैस्ते बद्धपल्लवपुटाञ्जलयः । तथाभूताः द्रुमाः यस्मिन्-तत्तथोक्तम् । "अञ्जलिस्तु पुमान् हस्तसम्पुटे” इति मेदिनी । उत् = ऊर्ध्वं मुखं येषान्ते उन्मुखाः । दर्शनेन =अवलोकनेन, मुनिदर्शनार्थमित्यर्थः उन्मुखाः = ऊर्ध्वाननाः मृगाः = हरिणा यस्मिस्तत्तथोक्तम् । एवंभूतं आत्मनः = स्वस्य तपसः = तपस्यायाः वनमिति तत् । निजाश्रमम् आससाद = प्राप।
समासः-शिष्याणां वर्गस्तेन परिकल्पिता अहणा यस्मिंस्तत् , तथोक्तम् पल्लवानां पुटाः पल्लवपुटाः । बद्धाः पल्लवपुटा एव अञ्जलयः यैस्ते बद्धपल्लवपुटाञ्जलयः। बद्धपल्लवपुटाञ्जलयः द्रुमाः यत्र तत्तथोक्तम् । दर्शनेन उन्मुखाः मृगाः यत्र तत्तथोक्तम् । तपसः वनमिति तपोवनम् , तत् ।
हिन्दी-वामनाश्रम से चलकर विश्वामित्रजी अपने उस तपोवन ( आश्रम ) में पहुँच गये। “जहाँ पर कि" शिष्यों ने पूजा की सामग्री तैयार कर रक्खी थी। और जहाँ पर वृक्ष, पत्तों के पुट (मिले हुवे पत्ते ) रूपी अञ्जलि बान्धे "खड़े" थे । और जहाँ पर मुनि के दर्शन के लिये मृग भी ऊपर को मुँह किये हुवे थे।