________________
एकादशः सर्गः
तो प्रणामचलकाकपक्षको भ्रातराववभृथाप्लुतो मुनिः।
आशिषामनुपदं समस्पृशदर्भपाटिततलेन पाणिना ॥ ३१ ॥ अवभृथे दीक्षान्त आमुत: स्नातो मुनिः। 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः। प्रणामेन चलकाकपक्षको चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तःप्रदेशेन । पवित्रणेत्यर्थः । पाणिना समस्पृशत्संस्पृष्टवान् । संतोपादिति भावः ॥ __ अन्वयः-अवभृथाप्लुतः मुनिः प्रणामचलकाकपक्षको तौ भ्रातरौ आशिषामनुपदं दर्भपाटिततलेन पाणिना समस्पृशत् ।
व्याख्या-अवभ्रियतेऽनेन सोऽवभृथः । अवभृथे = दीक्षान्ते आप्लुतः = रनातः, इति अवभृथाप्लुतः मुनिः = कौशिकः। प्रणामेन = अभिवादनेन चलौ चञ्चलौ काकपक्षकौ = शिखण्डको ययोस्तौ प्रणामचलकाकपक्षको, तौ। “वालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः” इति हलायुधः । “काकपक्षः शिखण्डकः” इत्यमरः। तौ उभौ भ्रातरौ आशिषाम् = शुभाशीर्वादानाम् , पदस्य पश्चात् अनुपदम् अन्वक् दर्भण = कुशेन पाटितं =क्षतं तलं = करतलं यस्य स तेन दर्भपाटिततलेन पवित्रणेत्यर्थः। “तलश्चपेटे” इति मेदिनी। पाणिना = करेण समस्पृशत् = पस्पर्श, संस्पृष्टवान् सन्तोपादित्यर्थः । __ समासः-अवभृथे आप्लुतः, अवभृथाप्लुतः । प्रणामेन चलौ काकपक्षको ययोरतो प्रणामचलकाकपक्षको, तौ। दभेण पाटितः तलः यस्य स दर्भपाटिततलस्तेन दर्भपाटिततलेन । पदस्य पश्चात् अनुपदम् ।
हिन्दी-यज्ञ की समाप्ति पर स्नान किये हुये मुनि विश्वामित्र ने प्रणाम करने से जिनकी शिखा ( लटें ) हिल रही थी, ऐसे उन दोनों भाई रामलक्ष्मण को शुभाशीर्वाद देने के साथ ही कुशा से कटी छिली हथेली वाले अपने हाथ से स्पर्श किया। अर्थात् प्रसन्न होकर पवित्र हाथ रामलक्ष्मण के शिरपर रखा।
विशेष प्रधान बड़े यज्ञ की समाप्ति पर शुद्धि के लिये किया जाने वाला स्नान अवभृथ कहलाता है। इस स्नान के करने पर ही यज्ञ सांगोपांग सम्पन्न होता है। इस स्नान के करने वाले यजमान और सब भक्तगण भी स्नान करके पुण्य के भागी होते हैं। यह शास्त्र का कथन है ॥ ३१॥
तं न्यमन्त्रयत संभृतक्रतुमैथिलः स मिथिलां व्रजन्वशी।
राघवावपि निनाय बिभ्रती तद्धनुःश्रवण कुतूहलम् ॥ ३२ ॥ संभृतक्रतुः सङ्कल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् । वशी स मुनिर्मिथिलां जनकनगरी व्रजस्तस्य जनकस्य यद्धनुस्तच्छ्रवण कुतूहलं बिभ्रतौ राघवावपि निनाय नीतवान् ॥
अन्वयः-संभृतक्रतुः मैथिलः तं न्यमंत्रयत, वशी सः मिथिलां व्रजन् तद्धनुःश्रवण कुतूहलं बिभ्रतौ राववौ अपि निनाय ।।
व्याख्या-संभृतः =संकल्पितः क्रतुः =यागः, स्वयंवरार्थधनुर्यज्ञो येन सः। मिथिलायां भवः मैथिलः = जनकः तं = विश्वामित्रं न्यमन्त्रयत =आमंत्रितवान् वशी = जितेन्द्रियः