Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकादशः सर्गः परिश्रमच्छिदाम् शाखाः = लताः सन्ति, एषोन्ते शाखिनस्तेषां शाखिनां = वृक्षाणां च दर्शनेन प्रोति न आपुः, “समे शाखालते' इत्यमरः ।
समासः-कमलैः शोभिनस्तेषां कमलशोभिनाम् । परिश्रमस्य छिदस्तेषां परिश्रमच्छिदाम् ।
हिन्दी-कमलों से सुशोभित जलभरे सरोवरों के, तथा थकावट को हरनेवाले हरेभरे वृक्षों के देखने से 'भी' तपस्विजनों ने वैसी प्रसन्नता नहीं प्राप्त की थी, जैसी कि उन दोनों राम लक्ष्मण के दर्शन से प्रसन्नता तथा सन्तुष्टि प्राप्त की थी ॥ १२ ॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥ स आत्तकार्मुकः। दशरथस्यापत्यं पुमान्दाशरथी रामः । 'अत इञ्' इती प्रत्ययः । स्थाणुहरः। 'स्थाणुः कीले हरे स्थिरे' इति विश्वः । तेन दग्धवपुपो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन । 'विग्रहः समरे काये' इति विश्वः। प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः देहेन मदनसुन्दर इति भावः ।।
अन्वयः-सः आत्तकार्मुकः दाशरथिः स्थाणुदग्धवपुषः मदनस्य तपोवनं प्राप्य, चारुणा विग्रहेण प्रतिनिधिः अभवत् कर्मणा न अभवत् ।
व्याख्या-आत्तं = गृहीतं कार्मुकं = धनुर्येन सः, आत्तकार्मुकः सः= पूर्वोक्तः दशरथस्यापत्यं पुमान् दाशरथिः =रामः । तिष्ठतीति स्थाणुः। स्थाणुना = शिवेन दग्धं = भस्मीकृतं वपुः = शरीरं यस्य स तस्य यथोक्तस्य "स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे” इति विश्वकोषः । मदनस्य = कन्दर्पस्य तपसः वनं तपोवनं प्राप्य = गत्वा चरति चित्ते तत् चारु । तेन चारुणा = सुन्दरेण विग्रहेण = शरीरेण प्रतिनिधीयते =सदृशीक्रियते, प्रतिनिधिः = प्रतिकृतिः अभवत् =जातः किन्तु कर्मणा = कार्येण न सदृशः। शरीरेणैव मदनसुन्दरः। न तु तत्कायेकारीति भावः।
समासः-स्थाणुना दग्धं वपुर्यस्य स तस्य स्थाणुदग्धवपुषः । तपसः वनमिति तत् तपोवनम् । आत्तं कार्मुकं येन सः।
हिन्दी-धनुष को लिये हुवे दशरथ के पुत्र राम तपोवन में पहुँचकर उस कामदेव के सुन्दर शरीर से तो प्रतिनिधि = सदृश हो गये, किन्तु उसके कार्य के प्रतिनिधि नहीं हुवे । जिसके शरीर को भगवान् शिव ने जला दिया ( भस्म कर दिया ) था। अर्थात् चापधारी श्रीराम सौन्दर्य में तो, कामदेव दीख रहे थे किन्तु मदन के कार्य से नहीं ॥ १३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥ अत्र रामायणवचनम् –'अगस्त्यः परमक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपोहाय दारुणं रूपमस्तु ते ॥' इति । तदेतदाह --विदितशापयेति। कौ