________________
३८४
रघुवंशमहाकाव्ये समासः-शय्यायां गतः शय्यागतस्तेन शय्यागतेन । शातमुदरं यस्याः सा शातोदरी । अम्भोजानां बलिः अम्भोजबलिः, सकते यः अम्भोजबलिः सकता. म्भोजबलिस्तेन सैकताम्भोजबलिना । शरदि कृशा शरत्कृशा।
हिन्दी-बच्चा पैदा होने के कारण कृशोदरी ( पतले पेट वाली ) माता कौसल्या पलंग पर लेटे हुवे राम से ऐसी सुशोभित हो रही थी ( सुन्दर लग रही थी ) जैसे बालु के तट पर "पूजा में" चढाये गये नीलकमल से शरद ऋतु में पतली धारा वाली गंगाजी सुन्दर लगती हैं ॥६९॥
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलं चक्रे यः प्रश्रय इव श्रियम् ॥७०॥ संजी०-कैकेय्या इति । केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी । 'तस्यापत्यम्' (पा. ४।१।९२ ) इत्यणि कृते 'केकयमित्रयुप्रलयाना यादेयिः' (पा. ३।२।५०) इतीयादेशः । तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः प्रश्रयो विनयः श्रियमिव । जनयित्री मातरमलंचक्रे ॥७०॥
अन्वयः-कैकेय्याः भरतः नाम शीलवान् तनयः जज्ञे, यः प्रश्रयः श्रियम् इव जनयित्रीम् अलंचक्र ।
व्याख्या-केकयस्य राज्ञः अपत्यं स्त्री कैकेयी तस्याः कैकेय्याः सकाशात बिभर्ति लोकानिति भरतः नाम शीलं-चरितमरयास्तीति शीलवान् चरित्रवान् तनयः पुत्रः जज्ञे-जातः उत्पन्नः । य:-तनयः प्रश्रयः-विनयः श्रियं-लक्ष्मीम इव-यथा जनयतीति जनयित्री तां जनयित्रीम् जननीम्, अलंचक्रे शोभितवान् ।
हिन्दी-कैकेयी से भरत नाम का सत्स्वभाव चरित्रवान् पुत्र उत्पन्न हुमा, जिस पुत्र ने अपनी माता को उसी प्रकार सुशोभित किया, जिस प्रकार विनय ( नम्रता ) लक्ष्मी को सुशोभित करता है ॥७०॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥७१।। संजी०-सुताविति । सुमित्रा लक्ष्मणशत्रुध्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोध-विनयौ तत्त्वज्ञानेन्द्रियजयाविव । सुषुवे ॥७१॥
गा