________________
एकादशः सर्गः समासः-लक्ष्मणः अनुचरो यस्य स तं लक्ष्मणानुचरम् । रक्षणस्य विधिस्तस्मिन् रक्षणविधौ ।
हिन्दी-महर्षि विश्वामित्र ने केवल राम लक्ष्मण को ही ले जाने की इच्छा की थी, अतः राजा दशरथ ने आशीर्वाद ही दिया ( राम लक्ष्मण को ) सेना "उनके साथ" नहीं भेजी। क्योंकि राजा का आशीर्वाद ही उन दोनों की रक्षा करने में समर्थ था ॥ ६ ॥
मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।।
रेजतुर्गतिवशात्प्रवर्तिनी भास्करस्य मधुमाधवाविव ॥ ७ ॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ । कृतमातृवर्गनमस्कारावित्यर्थः । 'स्पृशोऽनुदके क्विन्' इति क्विन्प्रत्ययः । तौ महौजसो मुनेः पदवीं प्रपद्य। महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ। मधुमाधवाविव चैत्रवैशाखाविव रेजतुः। 'फणां च सप्तानाम्' इति वैकल्पिकावेत्वाभ्यासलोपौ। 'स्याच्चैत्रे चैत्रिको मधुः' इति 'वैशाखे माधवो राधः' इति चामरः ॥
अन्वयः–मातृवर्गचरणस्पृशौ तौ महौजसः मुनेः पदवीं प्रपद्य, महौजसः भास्करस्य गतिवशात् प्रवर्तिनौ मधुमाधवौ इव रेजतुः । ___व्याख्या–मातृणां = जननीनां वर्गः =समूहस्तस्य चरणाः =पादाः तान् स्पृशतः इति तौ मातृवर्गचरणस्पृशौ = कृतजननीसमूहप्रणामौ तौ =रामलक्ष्मणौ महत् = प्रभूतम् ओज: तेजो यस्य स तस्य महौजसः मुनेः = विश्वामित्रस्य पद्यते = गम्यते अनया सा पदवी तां पदवीं = मार्ग प्रपद्य = गत्वा प्राप्येत्यर्थः महौजसः = महाप्रकाशस्य भासं = प्रभां करोतीति भास्करस्तस्य भास्करस्य = सूर्यस्य गतीनां = मेषादिराशिसंक्रान्तीनां वशः = अनुसारस्तस्मात् , प्रवर्तिनौ = गतौ मधुः = चैत्रः च माधवः = वैशाखः, चेति तौ मधुमाधवौ, इव = यथा रेजतुः = शुशुभाते, शोभां प्रापतुरित्यर्थः । मधुः = मकरन्दः= पुष्परसोऽस्यास्तीति माधवः। “स्याच्चैत्रे चैत्रिको मधुरिति, वैशाखे माधवो राधः” इति चामरः ।
समासः-मातृणां वर्गस्तस्य चरणास्तान् स्पृशतः, इति तौ मातृवर्गचरणस्पृशौ । महत् ओजो यस्य स तस्य महौजसः । गतेः वशस्तस्मात् गतिवशात् । मधुश्च माधवश्चेतिमधुमाधवौ ।
हिन्दी–तीनों माताओं के चरण छूकर ( चरणों में प्रणाम कर के ) वे दोनों राम लक्ष्मण, महा तेजस्वी मुनि विश्वामित्र के रास्ते पर जाकर ( उनके पीछे-पीछे चलते हुवे ) ऐसे सुशोभित हो रहे थे, मानों महाप्रकाश वाले सूर्य की गति ( मेष वृष की संक्रान्ति के अनुसार ) के कारण चैत्र तथा वैशाख चल रहे हों ॥ ७॥
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।
तोयदागम इवोद्धयभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ८ ॥ ___ वीचिलोलभुजयोस्तरङ्गचञ्चलबाह्वोः इदं विशेषणं नदोपमानसिद्धयर्थं वेदितव्यम् । तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत । किमिव । तोयदागमे वर्षासमये उज्झत्युदकमित्युद्धयः।