________________
रघुवंशमहाकाव्ये राम इत्यभिरामेण वपुषा तस्य चोदितः।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥६७।। संजी०-राम इति । अभिरमन्तेऽत्रेत्यभिरामं मनोहरम् । अधिकरणार्थे घञ्प्र. त्ययः । तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथम मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमितमित्यर्थः ॥६७।
अन्वयः-अभिरामेण वपुषा चोदितः गुरुः, तस्य जगत्प्रथममंगलं राम इति नामधेयं चक्रे।
व्याख्या-अभिरमन्ते जनाः यस्मिन् तत् अभिराम मनोहरं सुन्दरं तेन अभिरामेण वपुषा-शरीरेण चोदितः-प्रेरितः गुरुः पिता राजा दशरथः तस्य= नवजात शिशोः पुत्रस्येत्यर्थः जगतां-लोकानां प्रथम-पूर्व प्रधान मंगलं कल्याणं शुभमिति तत् जगत्प्रथममंगलं रमन्ते योगिनो यस्मिन् स रामः इति नाम एवेति नामधेयं चक्रे-कृतवान् ।
समासः-प्रथमं च तन्मंगलमिति प्रथममंगलम्, जगतां प्रथममंगलमिति जगत्प्रथममंगलम्, तत् ।
हिन्दी-सुन्दर मनोहर शरीर से प्रेरित, पिता दशरथने, उस बालक का संसार में पहला एवं प्रधान रूप से मंगलकारी नाम राम किया। अर्थात् बालक के सुन्दर शरीर से प्रभावित होकर राम यह सुन्दर नाम रखा था। और राम नाम का अभिरामत्व ( मनोहरत्व ) ही प्रवृत्तिनिमित्त है। यह कवि का अभिप्राय है ॥६७॥
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥६८॥ संजी-रविति । रघुवंशस्य प्रदीपेन प्रकाशकेन । अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन् । महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥६॥
अन्वयः-रघुवंशप्रदीपेन अप्रतिमतेजसा तेन रक्षागृहगताः दीपा: प्रत्यादिष्टाः इव अभवन् ।