Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
३६३ तुल्ये, अपि हि-निश्चये यथा येन प्रकारेण उभौ-द्वौ रामश्च लक्ष्मणश्चेति रामलक्ष्मणी प्रोत्या प्रेम्णा स्नेहेन द्वौ द्वौ, · इति द्वन्द्वं बभूवतुः=जातौ तथा तेनैव प्रकारेण भरतश्च शत्रुघ्नश्च इति भरतशत्रुघ्नौ प्रीत्या सौहार्दैन द्वन्द्वंद्वौ दौ साहचयेण प्रकटितौ बभूवतुः-जातौ । ..
समास:-रामश्च लक्ष्मणश्च रामलक्ष्मणौ । भरतश्च शत्रुघ्नश्च भरतशत्रुघ्नौ ।
हिन्दी-चारों भाइयों का शोभन भाइपना बराबर होने पर भी ( चारों का परस्पर समान प्रेम होने पर भी) जिस प्रकार राम लक्ष्मण का प्रेम से जोड़ा हुआ, उसी प्रकार भरत और शत्रुघ्न का भी प्रेम से जोड़ा हुआ। अर्थात् दो दो का जोड़ा प्रसिद्ध हुआ, किन्तु कहीं भी किसी का प्रेम कम न हुमा ॥१॥
तेषां द्वयोयोरैक्यं विभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥२॥ संजी०-तेषामिति । तेषां चतुर्णा मध्ये द्वयोर्द्वयोः । राम-लक्ष्मणयोभैरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायु-विभावस्वोतिवह्नयोरिव । चन्द्र-समुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न बिभिदे । एककार्यत्वं समानसुखदुःखत्वं च क्रमाबुपमाढयाल्लम्यते । सहजः सहकारी हि वह्नायुः । चन्द्रवृद्धौ हि वर्धते सिन्धुः तत्क्षये च क्षीयत इति ॥२॥
अन्वयः-तेषां “मध्ये" द्वयोः द्वयोः वायुविभावस्वोः यथा, चन्द्रसमुद्रयोः यथा ऐक्यं कदाचन न बिभिदे। __ व्याख्या-तेषां चतुर्णा मध्ये द्वयोः रामलक्ष्मणयोः द्वयोः भरतशत्रुघ्नयोश्च वातीति वायुः-पवनः। विभा प्रभा वसु-धनं यस्य स विभावसुः वह्निः । वायुश्च विभावसुश्चेति वायुविभावसू तयोः वायुविभावस्वोः यथा-इव, चन्दति आहादयतीति चन्द्रः । समीचीनाः उद्रा जलचरविशेषाः यस्मिन् स समुद्रः, सह मुद्रया-समर्यादया वर्तते इति वा समुद्रः । चन्द्र: चन्द्रमाः समुद्रः सागरश्चेति चन्द्रसमुद्रौ तयोः चन्द्रसमुद्रयोः यथा=इव एकस्य भावः कर्म वा ऐक्यम्=ऐकमत्यम् कस्मिन् काले कदा मनिर्धारिते काले कदाचन, न बिभिदे-न भिद्यते स्म, कस्मिंश्चिदपि समये तेषामैकमत्यं भेदं न गतमित्यर्थः ।