Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
बडठः सर्गः
५३
हिन्दी-सुन्दर भुजावाला और धनुर्धारियों में अग्रगण्य हेमांगद राजा, अपनी दोनों भुजाओं में धनुष की डोरी की रगड़ से बनी दो काली-काली रेखाओं को धारण किए हुए हैं। वे रेखाएँ ऐसी जान पड़ती हैं, मानों बन्दी बनाई गई (अर्थात् गिरफ्तार की गई) शत्रुओं की राजलक्ष्मी की कजरारी आँखों से बहे हुए आँसुओं के कारण काली दो पगडंडियां हों ॥ ५५ ॥
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रायादवातायनदृश्यवीधिः प्रबोधयत्यर्णव एव सुप्तम् ॥५६॥
संजी०-यमिति । आत्मन: सद्मनि सुप्तं यं हेमाङ्गदं संनिकृष्टः समीपस्योऽत एव प्रासादवातायनैश्यवीचिर्मन्द्रेण गम्भीरेण । 'मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनिना त्याजितं विवर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । अर्णव एव प्रबोधयति, अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थः। समुद्रस्यापि सेव्यः किमन्येषामिति भावः ॥५६॥
अन्वय-आत्मनः सदमनि सुप्तम् यम संनिकृष्टः ( अत एव ) प्रासादचातायनदृश्यवीचिः मन्द्रध्वनित्याजितयामतूर्यः, अर्णवः एव प्रबोधयति ।
व्याख्या-आत्मनः= स्वस्य सद्मनि वेश्मनि = गहे सुप्तम् =शयितम् यं हेमांगदम् संनिकृष्टः = समीपस्थः (अत एव) प्रासादानाम् =राजभवनानाम् वातायनानिगवाक्षाः, तैः दृश्याः=अवलोकनीयाः, वीचयः= तरंगाः यस्य स प्रासादवातायनदृश्यवीचि:, मन्द्रः = गम्भीरश्चासौ ध्वनिः = शब्दः इति मन्द्रध्वनिस्तेन त्याजितं विवजितम् यामस्य -प्रहरस्य तूर्य वाद्यं येन स मन्द्रध्वनित्याजितयामतूर्यः, अस्य नगरे सर्वदा समुद्रस्य गम्भीरो ध्वनिः भवतीति प्रहरावसानसूचकं वाद्यं परित्यक्तमिति भावः, अर्णवः समुद्रः, एव = केवलम प्रवोधयति =जागरयति ।
समास:-प्रासादानाम वातायनानि तैः दृश्या: बीचयः यस्य स प्रासाद. वातायनदृश्यवीचिः । मन्द्रश्चासौ ध्वनिरिति मन्द्रध्वनिस्तेन त्याजितं यामस्य तयं येन स मन्द्रध्वनित्याजितयामतूर्यः ।
हिन्दी-अपने घर में सोते हुए हेमांगद को, पास में ही रहने वाला, इसीलिए राजभवन की खिड़कियों से दिखाई दे रही हैं, तरंगे जिसकी और अपनी