________________
नवमः सर्गः
३०७
हिन्दी- ककुत्स्थवंशी दशरथने, हाथियों के कुलसे जबरदस्त वैर रखने वाले, तथा जिनके नोकीले नखों के अग्रभाग में गजकुम्भ के मोती लगे हैं ऐसे सिंहों को मारकर मानो अपने बाणों से उन हाथियों के ऋण से अपने को मुक्त समझ लिया जिन हाथियों ने युद्धस्थल में राजा का उपकार किया था ॥६५॥
चमरापरितः प्रवतिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी । नृपतीनिव तान्वियोज्य सद्यः मितचालव्यजनैर्जगाम शान्तिम् ॥६६॥
संजी०-चमरानिति । क्वचिच्चमरान्परितः । 'अभितःपरितःसमया( वा. १४४२ ) इत्यादिना द्वितीया। प्रवर्तिताश्वः प्रधाविताश्वः । आकर्णविकृष्टभल्लानिषविशेषान्वर्षतीति तथोक्तः स नृपः । नृपतीनिव तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरय्य सद्यः शान्ति जगाम । शूराणां परकीयमैश्वर्यमेवासह्यम्, न तु जीवितमिति भावः । औपच्छन्दसिकं वृत्तम् ॥६६॥
अन्वयः--क्वचित् चमरान् परितः प्रवर्तिताश्वः अाकर्णविकृष्टभल्लवर्षी सः नृपतीन् इव तान् सितबालव्यजनैः वियोज्य सद्यः शान्ति जगाम ।
व्याख्या-क्वचित्-प्रदेशे चमरान्-मृगविशेषान् परितः = सर्वतः प्रवर्तिताः प्रधाविताः अश्वाः-तुरंगाः येन स प्रवर्तिताश्वः, आकर्ण = कर्णमभिव्याप्य विकृष्टाः= संधानिता इत्यर्थः, च ते भल्लाः बाणविशेषा इति आकर्णविकृष्टभल्लास्तान् वर्षति प्रक्षिपतीति आकर्णविकृष्टभल्लवर्षी स नृपः, नृपतीन्-भूपालान् इव = यथा तान्= चमरान् बालस्य = चमरीपुच्छस्थ व्यजनानि-चामराणि इति बालव्यजनानि, सितानि-श्वेतानि च तानि बालव्यजनानि च तैः सितबालव्यजनैः-प्रकीर्णकैः वियोज्य-विरहय्य सद्यः = सपदि तत्क्षणं शान्ति सन्तोषं जगाम = गतः । शूराः परकीयमैश्वर्यं न सहन्ते जीवितं तु सह्यमेव ।। ___ समासः-प्रवर्तिताः अश्वाः येन स प्रवर्तिताश्वः । आकर्णं विकृष्टाश्च ते भल्लाः अाकर्णविकृष्टभल्लास्तान् वर्षतीति आकविकृष्टभल्लवर्षी । बालस्य व्यजनानि बालव्यजनानि । बालैर्वा निर्मितानि व्यजनानि बालव्यजन्दानि सितानि च तानि बालव्यजनानि च सितबालव्यजनानि, तैः सितबालव्यजनैः ।
हिन्दी----किसी स्थान में चमरियों ( चमरीगायों) के चारों ओर घोड़े को दौड़ानेवाले और कान तक खींचकर भाले की नोक वाले बाणों की वर्षा करने