Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
दशमः सर्गः
३७५ इत्याख्या यासां ताभिः । जलवहनसाम्यानाडोभिरिव नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिः । अपां विकारोऽम्मयो जलमयो गर्भ इव । दधे धृतः जातावेकवचनम् । गर्भा दधिर इत्यर्थः । अत्र यादवः-'तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । शतत्रयं हिमोत्सर्ग तावद्गर्भस्य सर्जने ॥ आनन्दाश्च हि मेध्याश्च नूतनाः पूतना इति । चतुःशतं वृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः ॥' इति ॥५८॥ __अन्वयः-ताभिः प्रजाभूत्यै देवांशसम्भवः गर्भः, सौरीभिः अमृताख्याभिः नाडीभिः अम्मयः "गर्भः” इव दधे।
व्याख्या-ताभिः- कोसल्याकैकयीसुमित्राभिः प्रजायन्ते इति प्रजास्तासां प्रजानां लोकानां भूत्यै कल्याणाय-अभ्युदयायेत्यर्थः, दीव्यतीति देवः । देवस्य-विष्णोः अंशः= मात्रा संभवः कारणं यस्य स देवांशसम्भवः, गर्भः भ्रूणः, सरति-सुवति लोकान् कर्मणि प्रेरयतीति सूर्यः, सूर्यस्य इमाः सौर्यस्ताभिः सौरीभिः= सूर्यसम्बन्धिनीभिः न म्रियन्तेऽनया अमृताः। अमृता प्राख्या नाम यासां ताः अमृताख्याः ताभिः अमृताख्याभिः नाड्यन्ति, नाड्यन्ते वा नाड्यः । ताभिः नाडीभिः दीधितिभिः, जलधारणसाम्येन नाडीनाम । अपां-जलानां विकारः अम्मयः जलमय: इवः यथा दधे-धृतः, सर्वा अपि ताः गर्भ धृतवत्यः इत्यर्थः ।
समासः-देवस्य अंशः, देवांशः । देवांशः सम्भवः यस्य स देवांशसम्भवः । प्रजानां भूतिः प्रजाभूतिस्तस्यै प्रजाभूत्यै । अमृता आख्या यासां ताः अमृताख्यास्ताभिः, अमृताख्याभिः ।
हिन्दी-कौसल्या, कैकेयी, सुमित्रा ने लोक कल्याण के लिये विष्णु के अंश वाले गर्भ को उसी प्रकार धारण किया, जिस प्रकार सूर्य की अमृत नाम को जल बरसाने वाली किरणें, लोक कल्याण के लिये जलरूप गर्भ को धारण करती हैं । अर्थात् सूर्य किरण ग्रीष्म ऋतु में जल को ले लेती हैं और वर्षा ऋतु में बरसती है ये कि रणे अमृता कही जाती हैं ॥५८।।
सममापनसत्त्वाता रेजुमपाण्डुर त्विषः ।
अन्तर्गतफलारम्भाः सस्थानमिव संपदः ।।५६ ।। संजी०--सममिति । समं युगपदापना गृहीताः सत्त्वाः प्राणिनो याभिस्ता मापन्नसत्त्वा गर्भिण्यः । 'पापन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी' इत्यमरः ।